पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[सर्ग १]
२७
धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः ।

ततस्ते सौगताः सर्वे भुजंगोऽस्तीत्यवादिषुः ॥
भोगीशभोगशयनो भगवानिति भूसुराः ।। ८७ ।।
श्रुतभूसुरवाक्यस्य वदनं पृथिवीपतेः ।
कासारशोषणम्लानसारसश्रियमाददे ॥ ८८ ॥
अथ प्रोवाच दिव्या वाक्सम्राजमशरीरिणी ।
तुंदन्ती संशयं तस्य सर्वेषामपि शृण्वताम् ॥ ८९ ॥
सत्यमेव महाराज ब्राह्मणा पद्धभाषिरे ॥
मा कृथाः संशयं तत्र भव सत्यप्रतिश्रवः ॥ ९० ॥
श्रुत्वाऽशरीरिणीं वाणीं ददर्श वसुधाधिपः ॥
मूर्ति मधुद्विषः कुम्भे मुधामिव मुराधिपः ॥ ९१ ॥
निरस्ताखिलसंदेहो विन्यस्तेतरदर्शनात्।।
व्यधादाज्ञां ततो राजा वधाय श्रुतिविद्विषाम् ॥ ९२ ॥




 भुजंगः सर्पः । भवादिषुः कथितवन्तः । भोगीशस्य शेषस्य मोगे शरीरे शयनं
यस्य स विष्णुरित्यर्थः ॥ ८७ ॥

 श्रुतं भूसुराणां वाक्यं खेन घटे निहितादन्यस्यार्थस्य प्रतिपादकं येन तस्य भूपते
र्मुखं कासारस्तडागः ।

 ‘पाकरस्तडागोऽस्मी कासारः सरसी सरः' इत्यमरः । तस्य शोषणेन म्लानस्य
सारसस्य कमलस्य श्रियमाददे ॥ ८८ ॥

 अथानन्तरमशरीरिणी दिव्या वाणी तस्य राज्ञः शृण्वतां च सर्वेषां संशायं नाशा
यन्ती राजानं मोवाच ॥ ८९ ॥ [ ततः श्रीशशंकर एवाष्टमूर्तिरपि शब्दगुणकाकाशमू
त्र्यवच्छेदेनैव राजानं सान्त्वयामासेत्याह । अथेति ] ॥ ८९ ॥
 हे महाराज ब्राह्मणा यदुक्तवन्तस्तत्सत्यमेव तत्र तदुक्त संशयं मा कुरु सत्यम
तिश्रवः सत्यमतिज्ञो भव ॥ ९० ॥
 मधुद्विषो विष्णोः सुराधिप इन्द्रः ।। ९१ ।।

 विन्यस्ताद्धटे स्थापिवादाशीविषादितरस्य मधुद्विषो दर्शनं तस्माद्धेतोर्निरस्ता अप
गता अखिलाः संदेहा यस्य सः ॥ ९२ ।।
 


१ ख. ग. नुदन्ती ।'।