पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/३०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३९७८ श्रीमच्छंकरदिग्विजयः । अयमहं यमहन्तुरपि स्वयं शमयिता मयि तावकसद्विराम् ॥ मुकलहं कलहं सकलाभृतां दिश मुधांशुसुधामलसत्तनो ॥ ४३ ॥ अपि तु दुर्हदयस्मयकानन क्षतिकठोरकुठारधुरंधरा ॥ न पटुता मम ते श्रवणान्तिकं ननु गताऽनुगताखिलदर्शना ॥ ४४ ॥ अत्यल्पमेतद्भवतेरितं मुने भैक्ष्यं प्रकुर्वे यदि वाददित्सुता । गतोद्यमोऽहं श्रुतवादवार्तया चिरेप्सितेयं वदिता न कश्चन ।। ४५ ।। [सर्गः ०] स्वगैौरवं द्योतयन्स्वस्मिन्वादात्मकं सुकलहं प्रार्थयते । अयमहं मण्डनो यमस्य मृत्योर्हन्तुरीश्धरस्यापि शमयितेश्वरस्य यमहन्तृत्वं तु'मृत्युर्यस्योपसेचनम्'इतिश्रुतिसिद्धं निरीश्वरवादिमीमांसकत्वादीश्वरो नास्तीति स्थापनेन तस्यापि स्वयं शमनकर्ततादृशे मयि कलहंसानां कला बिभ्रतीति तास्तासां कलहंसकलाभृतां तावकसद्रिरां सुकलहं दिशेरय । एतस्मिन्योग्योऽसीति सूचयन्संबोधयति । सुधांशोश्चन्द्रस्य यत्सुधाम तद्वलसन्ती द्योतमाना तनूर्यस्य तस्य संबोधनं हे सुधांशुसुधामलसत्तनो इति ॥४३॥ [ कलहंसेति । कलहंसानामतिमधुरध्वनिशालिराजहंसानां ये कला अव्यक्तमधुरध्वन यस्तानासमन्ताद्विभ्रतीति तथा तासामित्यर्थः ] ॥ ४३ ॥ मम वाकातुर्यमज्ञात्वा मया सह वादमिच्छसीति सूचयन्नाह । अपि तु दुर्हदयानां स्मयो गर्व एव काननं वनं तस्य क्षतौ छेदने कठोरकुठारधुरंवरा कठोरकुठारतुः ल्याऽनुगतान्यनुसृत्यान्यखिलदर्शनानि सर्वशास्त्राणि ययाऽनुगतान्यनुस्यूतान्यखिल दर्शनानि यस्यामिति वैवंविधा मम पटुता चातुरी ननु निश्चयेन ते तव श्रवणस्य कर्णस्यान्तकं समीपं न गता न प्राप्ता यतो मत्तो वादाभेक्षां याचस इत्यर्थः ।। ४४॥ किंच । अत्यल्पमिति । हे मुने यदि तव वाददित्सुता वाददानेच्छुत्वं तर्हि वाद् भैक्ष्यं प्रकुर्व इत्येतद्भवताऽत्यल्पमीरितं कथितं यतोऽहं श्रुता या वादवार्ता तयैः याचनां विनैव वादं कर्तु गतोद्यमः प्राप्तोद्यमः । इदं कुत इत्यत आह । यत इः वाद्वार्ता विरेप्सिता चिरकालादासुमिष्टा । ताहिं किमिति केनचिद्वादो न कृत इि तत्राऽऽह । वदिता वादकत न कश्चन कोऽपि न मिलित इत्यर्थ । उपजाविवृत्तः ॥ ४५ ॥ [ अहं श्रुतवादवार्तयैव गतोद्यमो गतो नष्ट उद्यम इतरव्यापारो यस्य