पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/३०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ सर्गः ८] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलि । ३०६ वादं करिष्यामि न संदिहेऽत्र जयाजयौ नौ वदिता न कश्चित् । न कण्ठशोषेकफलो विवादो मिथो जिगीष् कुरुतस्तु वादम् ॥ ४६ ॥ वादे हि वादिप्रतिवादिनौ द्वौ विपक्षपक्षग्रहणं विधत्तः । का नौ प्रतिज्ञा वदतोश्च तस्यां किं मानमिष्टं वद कः स्वभावः ।। ४७ ।। कः पाष्र्णिकोऽहं गृहमेधिसत्तम स्त्वं भिक्षुराजो वदतामनुत्तमः ॥ जयाजयौ नौ सपणौ विधीयतां ततः परं साधु वदाव सुस्मितौ ॥ ४८ ॥ अद्यातिधन्योऽस्मि यदार्यपादो मया सहाभ्यर्थयते विवादम् ॥ भविष्यते वादकथाऽपरेद्यु मध्याङ्गिकं संप्रति कर्म कुर्याम् ॥ ४९ ॥ तथा सकलशब्दबौकमननानिष्ठोऽस्मीत्यर्थः । तत्र हेतुः । चिरेत्यादि । यद्वा श्रुतवा दवार्तयैवाहमद्य मोहं लालस्यं गतः प्राप्त इत्यर्थः ] ।। ४५ ।। वादं करिष्याम्यत्र वादकरणे न संदेहे संदेहं न करोमि परं तु नावावयोर्जयाज यावयं जयं प्राप्तोऽयं तु पराजयमिति वदिता कश्चिन्मध्यस्थो न भवति । मास्त्विति चैत्रेत्याह । यत भावयोर्विवादः कण्ठस्य शोष एवैकं फलं यस्य स कण्ठशोषेकफलो न भवति । तु शब्दो ह्यर्थः । हि यस्मात्परस्परं विजिगीपू विवादं कुरुतोऽत इत्यर्थः ।। ४६ ।। वाद्रीर्ति दर्शयति । हि यस्माद्वादे वादिप्रतिवादिनौ द्वौ विपक्षपक्षयोग्रेहणं विधत्त इति रीतिस्तस्मान्नावावयोर्विवदतोः प्रतिज्ञा का तस्यां प्रतिज्ञायां मानं प्रमाणं किमिष्टं स्वभावः स्वीयो भावोऽभिप्रायः ।। ४७ ॥ कः पार्टणकः समीपस्थो मध्यस्थः क इति सर्वं वद किंचाहं गृहमेधिसत्तमस्त्वं तु वदतामनुत्तमो भिक्षुराजस्तस्मादादौ नौ जयाजयौ सपणौ विधीयतां ततः परं द्वावपि सुस्मितौ वदाव वादं करवाव ॥ ४८ ॥ एवं प्रागल्भ्यपूर्वकमुक्त्वा नम्रतापूर्वकमाह । अद्याहमतिवन्योऽस्मि यद्यस्मादार्थ पादो भवान्मया सह विवादमभ्यर्थयते प्रार्थयते ॥ ४९ ॥