पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/३०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ सर्गः ८ ] धनपतिरिकृतडिण्डिमाख्यटीकासंवलितः । ३०७ इति यतिप्रवरस्य निशम्य त द्वचनमर्थवदागतविस्मयः ॥ परिभवेन नवेन महायशाः स निजगौ निजगौरवमास्थितः ॥ ३९ ॥ अपि सहस्रमुखे फणिनामके न विजितस्त्विति जातु फणत्ययम् ॥ न च विहाय मतं श्रुतिसंमतं मुनिमते निपतेत्परिकल्पिते ॥ ४० ॥ अपि कदाचिदुदेष्यति कोविदः सरसवादकथाऽपि भविष्यति ॥ इति कुतूहलिनो मम सर्वदा जयमहोऽयमहो स्वयमागतः ॥ ४१ ॥ भवतु संप्रति वादकथाऽऽवयोः फलतु पुष्कलशास्रपरिश्रमः ॥ उपनता स्वयमेव न गृह्यते नवमुधा वसुधावसथेन किम् ॥ ४२ ॥ सिद्धान्तत्वादुत्तमं संश्रय विगद वा यद्वा विवादं कुरु जितस्त्विति जितोऽस्मीत्येवं वा वद् ॥ ३८ ॥ इति यतिमवरस्य तत्तादृशामर्थवद्वचोऽर्थयुक्तं वचनं निशम्य श्रुत्वा नवेनापूर्वेण परिभवेन तिरस्कारेणाऽऽगतविस्मयः प्राप्तविस्मयः स मण्डनो निजगौरवमास्थितो निजगैौ जगाद् ॥ ३९ ॥ सहस्रमुखे फणिनामके शेषनागे सत्यप्ययं मण्डनो जातु कदाचिद्विजित इति तु न फणति नैव वदत्यतोऽयं वेदसंमतं मतं विहाय परिकल्पिते मुनेव्यसस्य तव वा मते न च निपतेत् ॥४०॥[सहस्रति । सहस्राननेऽपि जल्पति सतीत्यर्थः] ॥४०॥ इदं तु मदभिलषितमेव सिद्धमित्याशयेनाऽऽह । अपि कदाचित्कश्चन कोविदः पण्डित उदेष्याति रसेन सहिता सरसा सा चासौ वादकथा च साऽपि कदाचिद्भवि ष्यतीति कुतूहलिनो ममाहो अद्यायं जयमहो जयोत्सवः स्वयमागतः ॥ ४१ ॥ तस्मात्संमतीदानीमावयोर्वादकथा भवतु जायमानया च वादकथया शास्त्रपरिश्रमः फलतु सफलो भवतु । बहुकालमारभ्याभिलाषास्पदाऽमृततुल्या वादकथा प्रहीतुं योग्यैवेत्याशयेनाऽऽह । स्वयमेवोपनता समीपमागता नवसुधा नवीनाऽननुभूतपूर्वी सुधा वसुधाभवनेन भूमिनिवासिना मत्र्येन किं न गृह्यतेऽपि तु गृह्यत एवेत्यर्थः ॥४२॥