पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/३०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३०४ श्रीमच्छंकरिदिग्वजपः। पतिभङ्गे प्रवृत्तस्य पतिभङ्गो न दोषभाक् । यतिभङ्गे प्रवृत्तस्य पञ्चम्यन्तं समस्यताम् ॥ २९ ॥ इक ब्रह्म क च दुर्मेधाः छ संन्यासः क वा कलिः । स्वामर्भक्षकामेन वेषोऽयं योगिनां धृतः ॥ ३० ॥ क स्वर्गः क दुराचारः कामिहोत्रं क वा कलिः । मन्ये मैथुनकायेन वेषोऽयं कर्मिणां धृतः ॥ ३१ ॥ इत्यादिदुवाक्यगणं बुवाणे रोषेण साहंकृतिविश्वरूपे ॥ श्रीशंकरे वक्तरि तस्य तस्यो त्तरं च कौतूहलतश्च चारु ॥ ३२ ॥ विच्छेदे भङ्गेन भेदेन विसंधिना भाषणकत्र त्वयाऽो ज्ञानं पकटितम् ॥ २८ ॥ [ यतीति । यतावनुष्टुप्श्लोकच्छन्दः पाठविरामस्थल इत्यर्थः । यो भङ्गः कर्मकाले न संभाष्य अहमित्यत्र न संभाष्योऽहमिति व्याकरणसिद्ध संविमविधाय काल्पनिकमज्ञा स्वमेव विसर्गलोपलक्षणं तद्विरुद्धत्वेन विसंध्यारूयदोषदुष्टत्वात्काव्यनाशास्तेन द्वारेति यावत् । भाषिणा भाषणशीलेन त्वया ] ॥ २८ ॥ मण्डन आह । यतेस्तव भङ्गे प्रवृत्तस्य मम तत्सूचको यतिभङ्गो न दोषभाग्दोष युक्तो न भवतीत्यर्थः । एवमुक्तो भगवानुवाच । यतिभङ्गे प्रवृत्तस्येत्यत्र यतेः सका शाद्भङ्ग इति पञ्चम्यन्तं समस्यतां नतु षष्ठयन्तं तथाच यतेः सकाशाद्भङ्गे जयाविप ये सति प्रवृत्तस्य यतिभङ्गो दोषभाग्र भवतीति त्वद्वाक्यार्थः ॥ २९ ॥ मण्डन भाइ । केति ॥ ३० ॥ भगवानुवाच । क स्वर्ग इति ।। ३१ ॥ उपसंहरति । इत्यादिदुर्वाक्यगणं साईंकृतिविश्धरूपे रोषेण बुवाणे श्रीशंकरे च तस्य तस्य वचनस्योत्तरं चारु सुन्दरं कौतुकादेव न तु कोपाद्वक्तरि सति तं मण्डनं व्यासोऽब्रवीदितिपरेणान्वयः । आदिपदेन

  • किं जडो जडता देहे भौतिके न चिदात्मनि ।

किमभाग्योऽसि यत्यचरहितोऽभाग्य उच्यते । किं दूषकोऽसि पापेन दूषितो जायते नरः । चोरैरुपाश्रितः किं त्वं स तुषर्गपीडितः । अप्रार्थितः किमर्थं त्वं समायातो गृहे मम । तव भाग्यवशाद्विष्णुरहमत्र समागतः' । [ सः ८] १ क. 'भक्ष्यका'।