पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/३०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ सर्गः ८ ] धनपतिरिकृतडिण्डिमाख्यटीकासंवलितः । तं मण्डनं सस्मितजैमिनीक्षितं व्यासोऽब्रवीज्जल्पसि वत्स दुर्वचः ॥ आचारणा नेयमनिन्दितात्मनां ज्ञातात्मतत्वं यमिनं धुतैषणम् ॥ ३३ ॥ अभ्यागतोऽसौ स्वयमेव विष्णु रित्येव मत्वाऽऽशु निमन्त्रय त्वम् ॥ इत्याश्रवं ज्ञातविधिं प्रतीतं मुध्यग्रणीः साध्वशिषन्मुनिस्तम् ॥ ३४ ।। अथापसस्पृश्य जल स शान्तः ससंभ्रमं मण्डनपण्डितोऽपि । व्यासाज्ञया शास्त्रविद्र्चयित्वा न्यमन्त्रयद्वैक्ष्यकृते महर्षिम् ॥ ३९ ॥ इत्यादिवाक्यजातं ग्राह्यम् । उपजातिवृत्तम् ॥ ३२ । [ सेति । अहंकृत्याऽ भिमानेन सहितं यथा स्यात्तथेति क्रियाविशेषणमिदम् ] ॥ ३२ ॥ ३०६ सस्मितेन जैमिनिनक्षितं तं मण्डनं व्यास उवाच हे वत्स ज्ञातं साक्षात्कृतमात्म तत्त्वं येन तं धुता विगताः पुत्रदारलोकैषणा यस्मात्तं यमिनं प्रति यदुवैचो जल्पसीय मनिन्दितात्मनामाचारणाऽऽचारो न भवति । इन्द्रवंशा वृत्तम् ॥ ३३ ॥ [ हे वत्स ! एतेनानुकम्पयैवाहं ब्रवीमि न तु पक्षपातेनेति द्योत्यते ] ॥ ३३ ॥ तथाचानिन्दितात्मा त्वमेवं कर्तु योग्योऽसीत्याह । असैौ यतिः स्वयमेव विष्णुरा गत इति मत्वा ज्ञातात्मतत्त्वं धुतैषणं यमिनामिमाशु शीघ्र त्वं निमम्रयेत्येवं प्रकारे णाऽऽश्रवं वचनस्थितम् । ‘आश्रवोऽङ्गीकृतौ झेशेनान्यवद्वचनस्थिते ' इति मेदिनी । ज्ञातविधिं प्रतीतं परूयातं तं मण्डनं सुध्यप्रणीर्मुनिव्यसः साधु यथा स्यात्तथाऽशिषच्छिक्षणं कृतवान् । इन्द्रवज्रा वृत्तम् ॥ ३४ ॥ अथ व्यासकृतशिक्षानन्तरं स मण्डनपण्डितोऽपि शान्तः सञ्जलमुपसंस्पृश्याऽऽच मनादिकं कृत्वा व्यासाज्ञया स्वयं च शास्त्रविन्महर्षेि शंकराचार्यमर्चयित्वा भैक्ष्यकृते भैक्ष्यार्षे न्यमश्रयत् । उपजातिवृत्तम् ॥ ३५ ॥