पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/३०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ सर्गः ८ ] घनपतिरिकृतडिण्डिमाख्यटीकासंवलितः । ३०३ यासां स्तन्यं त्वया पीतं यासां जातोऽसि योनितः । तासु मूर्खतम स्त्रीषु पशुवद्रमसे कथम् ॥ २५ ॥ वीरहत्यामवाप्तोऽसि वहीनुद्धास्य पलतः । आत्महत्यामवाप्तस्त्वमविदित्वा परं पदम् ॥ २६ ॥ दौवारिकान्वश्वयित्वा कथं स्तेनवदागतः । भिक्षुभ्योऽन्नमदत्त्वा त्वं स्तेनवद्भोक्ष्यसे कथम् ॥ २७ ॥ कर्मकाले न संभाष्य अहं मूखेण संमति । अहो प्रकटितं ज्ञानं यतिभङ्गेन भाषिणा ॥ २८ ॥ भगवानुवाच । यासां योषितां स्तन्यं स्तनभवं पयस्त्वया पीतं यासां च थोनितो जातोऽसि वासु स्त्रीषु हे मूर्खतम पशुवत्कथं रमसे ॥ २५ ॥ मण्डन आह । वीरेति । गाईपत्याहवनीयदक्षिणारूयान्वह्नीन्यत्नवः प्रयत्नेनो द्रास्य वीरस्येन्द्रस्य इत्यामवाधोऽसि । तथाच श्रुतिः । ‘वीरहा वा एष देवानां योऽधीनुद्वासयति' । एवमात्रुष्टो भगवानुवाच । परं पदं परमात्मस्वरूपमवि दित्वाऽऽत्महत्यामवाप्तः प्राप्तः । ‘असन्नेव स भवत्यसङ्कोति चेद्वेद' । असुर्या नाम ते लोका अन्धेन तमसाऽऽवृताः । तांस्ते प्रेत्याभिगच्छन्ति ये के चाऽऽत्महनो जनाः' ।

  • अन्यथा सन्तमात्मानं योऽन्यथा प्रतिपद्यते ।

किं तेन न कृतं पापं चैौरेणाऽऽत्मापहारिणा' । इत्यादिश्रुतिस्मृतिभ्यः ॥ २६ ॥ एवं वाक्यचातुर्येण प्रतिबद्धो मण्डनः प्रकारान्तरेणाऽऽक्षिपाति । दौवारिकान्द्वा रपाखान्वञ्चयित्वा चैौरवत्कथमागतः । पत्याक्षिपति भगवान् । भिक्षुभ्योऽन्नं तेषां भागमद्दत्त्वा स्तेनवत्कथं भोक्ष्यसे ॥ २७ ॥ [ तद्रीत्यैव तं प्रत्याचष्टे । भिक्षुभ्य इत्यु त्तरार्धेन । तथा च भगवानाह गीतासु । ‘इष्टान्भोगान्हि वो देवा दास्यन्ते यज्ञभाविताः । वैर्दत्तानमदायैभ्यो यो भुङ्गे स्वेन एव सः' इति स्मृत्यन्तरेऽपि । ‘यतिश्च ब्रह्मचारी च पकान्नस्वामिनावुभौ । तयोरन्नमदत्त्वा तु भुक्त्वा चान्द्रायणं चरेत्’ इति ] ॥ २७ ॥ एवं प्रत्युतैः पराजितो वकुमशक्तः सन्मण्डन आह । संमतीदानीं कर्मकालेऽहं मूखेंण त्वया संभाष्यो भाषणयोग्यो न भवामि । एवमुक्तो भगवानुवाच । यतौ पाठ