पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/३००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३०२५ श्रीमच्छंकरदिग्विजयः । कन्थाँ वहामि दुर्बुद्धे तव पित्राऽपि दुर्भराम् ॥ शिखायज्ञोपवीताभ्यां श्रुतेर्भारो भविष्यति ॥ २१ ॥ त्यक्त्वा पाणिगृहीतीं स्वामशक्त्या परिरक्षणे । शिष्यपुस्तकभारेच्छोव्यख्याता ब्रह्मनिष्ठता ॥ २२ ॥ गुरुशुश्रूषणालस्यात्समावत्र्य गुरोः कुलात् । त्रियः शुश्रूषमाणस्य व्याख्याता कर्मनिष्ठता ॥ २३ ॥ स्थितोऽसि योषितां गर्भ ताभिरेव विवर्धितः । अहो कृतघ्रता मूर्ख कथं ता एव निन्दसि ॥ २४ ॥ [ सर्गः ८ ] एवमाक्षिप्तो भगवानपि कौतुकादाक्षेपं प्रतिक्षिपञ्शिाखायज्ञोपवीताभ्यामित्यादेरुत्तर माह । कन्थामिति । तव पित्राऽपि दुर्भरां त्रीभिस्तिरस्कृतेन पुनश्च तास्वेव मीति मता गर्दभेन तव पित्राऽपि दुर्वहां कन्थां शिखायज्ञोपवीते-विहाय वहामि यतस्ताभ्यां परीक्ष्य लोकान्कर्मवितान्ब्राह्मणो निर्वेदमायात् । ‘यदहरेव विरजेत्तदहरेव प्रव्रजेत्’ । ‘ब्रह्मचर्यद्वा गृहाद्वा वनाद्वा'। ‘संन्यस्य श्रवणं कुर्यात्'। ‘न कर्मणा न प्रजया धनेन त्यागेनैके अमृतत्वमानशुः'।'अथ परित्राड़िवर्णवासा मुण्डोऽपरिग्रहः' इत्यादिश्रुतेर्भारो भविष्यति । स च वैदिकेनावैश्यं मया वारणीयः । पाठान्तरे तु विधिनिषेधात्मिका श्रुतिर्भरो भविष्यतीत्यर्थः । अतस्तद्भारविमोक्षणाय कन्थावाइकस्य मम सुबुद्धित्वम विदित्वा दुर्बुद्धित्वं वदतस्तवाहो दुर्बुद्धितेति ध्वनयन्संबोधयति । हे दुर्बुद्ध इति ॥२१॥ संन्यासं विना ब्रह्मनिष्ठता न सिध्यतीति शिखायज्ञोपवीते मया त्यक्ते इति बोधकं भगवद्वाक्यं श्रुत्वा मण्डन भाइ । त्यक्त्वेति । स्वां स्वीयां पाणिगृहीतीं भार्या परिरक्षणेऽशक्त्या विहाय शिष्यपुस्तकभारेच्छोस्तव या ब्रह्मनिष्टता सा व्याख्याताऽहो लोके पथिता ॥ २२ ॥ एवमाक्षिप्तस्तं प्रत्याक्षिपति गुरुशुश्रूषण आलस्यादुरोः कुलात्समावत्यै समावर्तनं विधाय स्त्रियः शुश्रूषमाणस्य तव या कर्मनिष्ठता सा व्याख्याता ॥ २३ ॥ [ स्त्रियः प्रति शुश्रूषमाणस्य सेवमानस्येत्यर्थः । बहुवचनं तु कचिद्रहस्थे बहुभार्यत्वस्यापि संभवात्तदभिप्रायम् ] ॥ २३ ॥ मण्डन आह । योषितां स्त्रीणां गर्मे स्थितोऽसि ताभिरेव विवर्धितस्त्वं ता एव कथं निन्दसीत्यहो हे मूर्ख तादृशास्त्रीकृतोपकारनाशकस्य तव कृतम्रता ॥ २४ ॥ १) क. "वश्यमपाकर'।