सामग्री पर जाएँ

पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/२९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ सर्गः ८ ] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । ३०९ अहो पीता किमु सुरा नैव श्वेता यतः स्मर ॥ किं त्वं जानासि तद्वर्णमहं वर्ण भवान्रसम् ॥ १८ ॥ मत्तो जातः कलञ्जाशी विपरीतानि भाषते ॥ सत्यं ब्रवीति पितृवत्वत्तो जातः कलञ्जभुक् ॥ १९ ॥ कन्थां वहसि दुर्बुद्धे गर्दभेनापि दुर्वहाम् ॥ शिखायज्ञोपवीताभ्यां कस्ते भारो भविष्यति ॥ २० ॥ न च छन्दोभङ्गः । ‘महाभ्यां च' इति सूत्रेण पादेः पूर्ववर्णस्य गुरुत्वापवादेन तद भावात् । अत एव कुमारसंभवेऽपि तथोदाजहार कालिदासः । सा मङ्गलस्नानविशुद्धगात्री गृहीतमद्युद्रमनयिवस्रा इति ] ॥ १७ ॥ एवमुक्तोऽतिरुष्टः सन्मण्डुन आह । अहो किमु सुरा मदिरा पीता किं त्वया मद्यपानं कृतमन्यथा विपरीतभाषणं कथं स्यात् । एवमाकुष्टो भगवांस्तद्वचनस्य सुरा किमु पीता पीतवर्णेत्यर्थे प्रकल्प्याऽऽह । नैवेति । सुरा पीता पीतवर्णा नैव भवति यतः कारणाच्छेता धेतवर्णा । स्वानुभूतमप्यर्थे कुतो न स्मरसीत्याशयेनाहं । स्मर स्मरणं कुरु । युरेति कचित्पाठः । एवमुक्तो मण्डन आह । किमिति । तस्याः सुराया वर्णे त्वं यतिः किं जानासि तद्वर्णज्ञानं यतेस्त्वात्यन्तानुचितमित्यर्थः । एव माक्षिप्तो भगवानुवाच । अहं वर्ण जानामि भवांस्तु रसं जानाति तथाच तद्वर्णज्ञानवा नप्यहं न प्रत्यवायी त्वं तु तद्रसानुभविता प्रत्यवायार्हः । ‘न सुरां पिबेत्' इति निषेधेन पानस्य प्रत्यवायजनकत्वबोधनान्न तु तद्वर्णज्ञानस्येति भावः ॥ १८ ॥ एवं विपरीतानि वचनानि श्रुत्वाऽतिरुष्टो मण्डन आह । मत्त इति । कलक्षं विषालिप्तबाणेन हतस्य मृगस्य मांसं कलत्रं न भक्षयेदिति वाक्येन निषिद्धमशितुं भोक्तुं शीलमस्येति स कलञ्जाश्यभक्ष्यभक्षणशीलो मत्त उन्मत्तो जातो यतो भवान्विप रीतानि भाषते । एवमत्याकृष्टो भगवांस्तद्वाक्यस्य मत्तो मत्सकाशाज्जातः कलञ्जाशी विपरीतानि भाषत इत्यर्थे प्रकल्प्याऽऽह । सत्यमिति । यथा पिता त्वं कलञ्जाशी विपरीतानि भाषसे तथा त्वत्तस्त्वत्सकाशाज्जात उत्पन्नः कलञ्जभुग्विपरीतानि ब्रवीति भाषत इति सत्यं यथार्थमेवेत्यर्थः ॥ १९ ॥ एवं पुनः पुनर्विपरीतं भगवद्वाक्यं श्रुत्वा प्रकारान्तरेणाऽऽक्षिपति । कन्थामिति । गर्दभेनापि दुर्वहां वोढुमशक्यां कन्थां वहसि तथाचातिभारभूतां कन्थां वोढुं समर्थस्य ते तव शिखायज्ञोपवीताभ्यां को भारो भविष्यति न कोऽपीत्यर्थः । स्वल्पभारभयाद नरुपभारवाहकस्य तवाहो दुर्बुद्धितेति सूचयन्संबोधयति । हे दुर्बुद्ध इति ॥ २० ॥ १ खं. ग. ध. "ह । स्मरणं ।