पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/२९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमच्छकरदिग्विजयः । कुतो मुण्ड्यागलान्मुण्डी पन्थास्ते पृच्छयते मया ॥ किमाह पन्थास्त्वन्माता मुण्डेत्याह तथैव हि ॥ १६ ॥ पन्थानं त्वमपृच्छस्त्वां पन्थाः प्रत्याह मण्डन ॥ त्वन्मातेत्यत्र शब्दोऽयं न मां ब्रूयादपूँच्छकम् ॥ १७ ॥ [ सर्गः ८ ] कोपरहितस्यापि कुतूहलं कौतुकं भृतो धारयत एवं किल वक्ष्यमाणप्रकारेण बुधश्रेष्ठ योस्तयोरथ क्रमेणोत्तरोत्तरं प्रश्नोत्तराण्यापुर्बभूवुः । वंशस्थं वृत्तम् ॥ १५ ॥ [कुतू हलं कौतुकम् । भृतो धारयतः सकलदृश्यावच्छेदेनेन्द्रजालत्वानुसंधानात्तदीयास्था निककोपेऽप्यक्षुब्वस्य श्रीभाष्यकारस्येत्यर्थः ।। १५ ।। प्रश्रोत्तराण्युदाहरन्नादौ मण्डनकर्तृकं प्रश्रमुदाहरति । कुत इति । मुण्डी कुतो गृहद्वाराणां कवाटैः पिहितत्वात्मुण्डी श्राद्धकर्मणि द्रष्टुमयोग्यो भवान्केन मार्गेण प्रविष्ट एवं मण्डनोक्तं श्रुत्वा तद्वचनस्य किंपर्यन्तं भवान्मुण्डीत्यर्थे प्रकल्प्याऽऽह भगवान् । भा गलाद्रलपर्यन्तं मुण्डी मत्प्रश्रार्थ एतेन न बुद्ध इत्यवगत्य मण्डन आह । पन्था मार्गस्ते तव मया पृच्छयते न तु किंपर्यन्तं भवान्मुण्डीत्येवमुक्तस्तद्वचनस्य तव पन्थानं प्रति मया प्रश्नः कृत इत्यर्थ मकल्प्याऽऽह भगवान् । किमाह । पन्थास्त्वया पृष्ट पन्थास्त्वां प्रति किमाह किमुक्तवानेवं विपरीतं श्रुत्वा कुपितः सन्मण्डन आह । त्वन्मातेति । मया पृष्टः पन्थास्त्वन्माता मुण्डेत्याह । एवमात्रुकुष्टो भगवानुवाच । तथै वेति । त्वया पृष्टेन पथा त्वां प्रतेि त्वन्माता मुण्डेति यदुक्तं तत्तथैव हि यस्मात्पन्थानं प्राति त्वमपृच्छस्त्वां प्रष्टारं प्रत्येव पन्थास्त्वन्माता मुण्डेत्याह । हे मण्डनेति संबोधय न्पण्डितशिरोमणिस्त्वमिदं ज्ञातुं योग्योऽसीति सूचयति । तस्मात्त्वन्मातेत्यत्रायं त्वच्छब्दो मामप्रच्छकं न बूयान्मद्वाचको न भवतीत्यर्थः । ‘वक्रोक्तिः श्लेषकाकुभ्यामपरार्थत्वकल्पनम्’ ॥ १६ ॥ [ आगलादित्यादि । आगलाद्रलपर्यन्तमेव मुण्डी कृतौरोऽस्मीत्यर्थः। कण्ठाद्ध क्षेौरस्य यतीनां धर्मशास्त्रे निषेधप्रसिद्धेः ] ॥ १६ ॥ ॥ १७ ॥ [ त्वन्मातेत्यत्र वाक्येऽयं प्रत्यक्षस्त्वच्छब्दोऽयच्छकं पश्रमकुर्वाणं । प्रति नैव बृयादिति योजना । तस्मात्तत्प्रच्छकस्त्वमेव त्वन्मातोति त्वदनूदिततद्वाक्य गतत्वच्छब्दवाच्यो भवसीति भावः । अपृच्छकमिति त्वपपाठ एव । असाधुत्वात् १ ग. घ. भत आश्रय।

  • न विद्यते पृच्छा यस्येति बहुव्रीहिः । गपुस्तके तु ब्रूयादप्रच्छकमित्येव पाठो दृश्यते ।