पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/२८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमच्छकरदिग्विजपः । अॅनुष्ठिातें द्रागवसाय्य वातैः कलहारशीतैरुपसेव्यमानः ॥ तीरे विशश्राम तमालशालि न्यत्रान्तरेऽश्रूयत लोकवार्ता ॥ ७३ ॥ गिरेरवपुत्य गतिः सतां यः प्रामाण्यमात्रायगिरामवादीत ।। यस्य प्रसादाश्रिदिवौकसोऽपि प्रपेदिरे प्राक्तनयज्ञभागान् ।। ७४ ।। सोऽयं गुरोरुन्मथनप्रसत्तं महत्तरं दोषमपाकरिष्णुः ॥ अशेषवेदार्थविदास्तिकत्वा तुषानलं प्राविशदेष धीरः ॥ ७५ ॥ अयं इधीताखिलवेदमन्त्रः कूलंकषालोडितसर्वतम्रः । नितान्तदूरीकृतदुष्टता स्त्रैलोक्यविभ्रामितकीर्तियम्रः ॥ ७६ ॥ द्राग्झटित्यनुष्ठितिमनुष्ठाँनमवसाय्य समाप्य कल्हारशीतैर्वातैरुपसेव्यमानस्तमालशा लिनि तीरे विश्रामं कृतवान् । अत्रान्तरे लोकवार्ताऽश्रूयत । उपजातिवृत्तम् ॥७३॥ तामेव दर्शयति । गिरेरिति । यः सतां गतिः पर्वतादवठुत्य वेदगिरां मामा ण्यमवादीत् ।। ७४ ।। सोऽयं भट्टपादो गुरोरुन्मथनात्पसत्तं प्राप्त महत्तरं दोषमपाकारेष्णुः सर्ववेदार्थज्ञ एष धीर आस्तिकत्वातुषार्मि प्राविशतू ॥ ७५ ॥ अयं भट्टपादो हि प्रसिद्धमधीताखिलवेदमम्रः पुनश्च कूलंकषा नदी तद्वदालोडि तान्यवगाहितानि सर्वशास्त्राणि सर्वसिद्धान्ता वा येन स नितान्तं दूरीकृतानि दुष्ट तत्राणि येनात एव विश्वामितं कीर्तिलक्षणं यत्रं येन सः । उपजातिवृत्तम् ॥ ७६ ॥ [ नितान्तेति । अत्यन्तनिरस्तदुष्टसिद्धान्त इति यावत् । दुष्टत्वं हि वेदविरुद्धत्व मेवात्र ] ॥ ७६ ।। १ क. अनुष्ठितं । २ क. 'ष्टितम'। ३ ख. ग. घ. 'ष्ठानं स'।