पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/२८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ सर्गः ७] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । श्रुत्वेति तां सत्वरमेष गच्छ न्व्यालोकयत्तं तुषराशिसंस्थम् ॥ प्रभाकराचैः प्रथितमभावै रुपस्थितं साश्रुमुखैर्विनेपैः ॥ ७७ ॥ धूमायमानेन तुषानलेन संदह्यमानेऽपि वपुष्यशेषे ॥ संदृश्यमानेन मुखेन बाष्प परीतपद्मश्रियमादधानम् ॥ ७८ ॥ दूरे विधूताघमपाङ्गभङ्गया तं देशिकं दृष्टिपथावतीर्णम् ॥ ददर्श भट्टो ज्वलदग्विकल्पो जुगोप यो वेदपथं जितारिः ॥ ७९ ॥ अदृष्टपूर्व श्रुतपूर्ववृत्तं दृष्टाऽतिमोदं स जगाम भट्टः । अचीकरच्छिष्यगणैः सपर्या मुपाददे तामपि देशिकेन्द्रः ॥ ८० ॥ २८३ इति तां लोकवार्ता श्रुत्वा तं भट्टपादं व्यालोकयदृष्टवान् । उपजाति वृत्तम् ॥ ७७ ॥ [ विनेयैः शिष्यैः । आद्यपदेन मण्डनमिश्रेतरमुरारिमिश्रपार्थसारथिमिश्रादय एव याह्याः । तस्य तु तदानीं स्वनगर एवावस्थितिरित्यग्र एव वक्ष्यति ] ॥ ७७ ॥ तं विशिनष्टि । धूमायमानेन तुषाग्निाऽशेषे वपुषि संदह्यमानेऽपि संदृश्यमानेन मुखेनोष्मव्याप्तकमलस्य श्रियमादधानं ‘बाष्पमूष्माश्रुकशिपौ' इति मेदिनी । ७८ ।। [ बाष्पेति । बाष्पं हि हेमन्तादौ प्रातःकालिकजलाशये समुत्थितधूमलेखासदृशं वस्तु प्रसिद्धमेव । तत्परीतकमलशोभामित्यर्थः । एतादृशं तं कुमारिलभट्टपादं व्यालोक यादिाति पूर्वेणान्वयः ] ।। ७८ ।। कटाक्षभङ्गन्या दूरे विधूतान्यवानि येन तं दृष्टिमार्गेऽवतीर्ण देशिकं श्रीशंकरं ज्वलदमितुल्यो भट्टपादो ददर्श यो जितारिर्वेदमार्ग जुगोप ॥ ७९ ॥ अदृष्टपूर्वं श्रुतपूर्वं वृत्तं चरितं यस्य तं श्रीशंकरं दृष्ट्रा भट्टोऽतिहर्ष जगाम ततश्च शिष्यगणैः पूजां कृतवांस्तां सपर्यामनपेक्षितामपि देशिकेन्द्रः स्वीकृतवान् ॥ ८० ॥