पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/२७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ सर्गः ७ ] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । स्वापानुषङ्गजडताभरिताञ्जनौघा न्स्वापानुषङ्गजडताविधुरान्विधत्से ॥ दूरीभवद्विषयरागहृदोऽपि तूर्ण धूर्तावतंसयसि देवि क एष मार्गः ॥ ७० ॥ इति स्तुवंस्तापसराट्त्रिवेणीं शाट्या समाच्छाद्य कटिं कृपीटे । दोर्दण्डयुग्मोद्धतवेणदण्डोऽ घमर्षणस्रानमना बभूव ।। ७१ ।। सस्रौ प्रयागे सह शिष्यसंधै स्वयं कृतार्थो जनसंग्रहार्थी ।। अस्मारि माताऽपि च सा पुपोष दधार या दुःखमसोढ भूरि ।७२ ॥ स्वापानुषङ्गेण निद्रानुषङ्गेण या जडता तयां व्याप्ताञ्जनौघान्निद्रानुषङ्गजडताविधु रैन्देवान्विधत्से दूरीभवद्विषयरागो यस्मात्तथाभूतं हृद्येषां तान्धूर्तावतंसयसि धूर्तशिरो मणीन्करोषि । तथाचैष को वा मार्गः । अत्र दूरीभवद्विषयरागहृदो धूत धत्तूरपुष्प तदवतंसः शिवस्तदूपान्करोषीति श्लेषेण स्तुतिः ‘धर्ते तु खण्डळवणे धत्तरे ना विटे त्रिष २८१ इति मेदिनी। इन्द्रवत्रा वृत्तम् ॥ ७० ॥ [ स्वापेति । हे देवि गङ्गे त्वम् । स्वस्या अपां जलानां योऽनुषङ्गः संसर्गस्तेन या जडता जाड्यं तेन भरितास्तानित्यर्थः । स्वापेति । निद्रासंसर्गशून्यानित्यर्थः । अस्वप्रशाब्दितदेवान्करोषीत्यन्वयः ] ॥ ७० ॥ इत्येवं त्रिवेणीं स्तुवन्संस्तापसराट् शाय्या कटिं सम्यगाच्छाद्य भुजदण्डयुग्मेनोध्र्वे धृतो वेणुदण्डो येन स कृपीटे जले । ‘कृपीटमुदरे तोये' इति मेदिनी । अघमर्षणरुनाने मनो यस्य तथाभूतो बभूव । उपजातिवृतम् ॥ ७१ ॥ या पुपोष गर्भ दधार दुःखं च भूर्यसोढ सा माताऽप्यस्मारि स्मृता । आख्या नकी वृत्तम् ॥ ७२ ॥ १ क. 'या भरितान्नि'। २ क. ‘रानेव विध'। ३ क.*षां तांस्तु मुखादिमुण्डनेन धूतौ'।