पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/२६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ सर्गः७ ] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । एवं वदन्तौ यतिराङ्गद्विजेन्द्रौ विलोक्य पाश्र्वस्थितपद्मपादः । आचार्यमाहेति महीमुरोऽयं व्यासो हि वेदान्तरहस्यवेत्ता ॥ १० ॥ त्व ३शकरः शाकर एव साक्षा ह्यासस्तु नारायण एव नूनम् ॥ तयोर्विवादे सततं प्रसत्ते किं किंकरोऽहं करवाणि सद्यः ॥ ११ ॥ इतीदमाकण्र्य वचो विचित्रं स भाष्यकृत्सूत्रकृतं दिदृक्षुः ॥ कृताञ्जलिस्तं प्रयतः प्रणम्य बभाण वाणीं नवपद्यरुपाम् ॥ १२ ॥ भवांस्तडिचारुजटाकिरीट प्रवर्षकाम्भोधरकान्तिकान्तः ॥ शुझोपवीती धृतकृष्णचर्मा कृष्णो हि साक्षात्कालदोषहन्ता ॥ १३ ॥ २६३ एवं प्रकारेण वदन्तौ यतिराड्द्वजेन्द्रौ विलोक्य पार्थे स्थितः पद्मपाद् भाचार्य मितीदमाहायं ब्राह्मणो वेदान्तरहस्यवेत्ता व्यासः ।हिरवधारणे। उपजातिवृत्तम् ॥१०॥ तथाच युवयोः शिवविष्णवोर्विवादे मवृत्ते किंकरेण मया किमनुष्यमित्याश् ! त्वमिति ॥ ११ ॥ इतीदं विचित्रं पद्मपादवचो निशम्य स भाष्यकारः सूत्रकारं दिदृक्षुः प्रयतः सावधानः कृताञ्जलिस्तं प्रणम्य नवपद्यरूपां स्तुतिवृत्तरूपां वाणीं जगाद । उपेन्द्रवज्रा वृत्तम् ॥ १२ ॥ [ दिदृक्षुद्रष्टुमिच्छुः ] ॥ १२ ॥ यदुवाच तदाह । भवाविद्युद्वचारुजटाकिरीटेन प्रवर्तुकाम्भोधरैकान्तिरिव या कान्तिस्तया कान्तः शुभ्रमुपवीतं यस्य धृतं कृष्णचर्म येन स कलिदोषहन्ता कृष्ण द्वैपायनो व्यास एव साक्षान्न त्वन्यः कश्चन ब्राह्मण इत्यर्थः । उपजातिवृत्तम् ॥१३॥ [ तडिदिति । एतेनामृतवर्षकत्वं सूच्यते । लुप्तोपमालंकारः ] ॥ १३ ॥ १ क. 'रस्य का'।