पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/२६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६४ श्रीमच्छदकरदिग्विजयः । भावत्कसूत्रप्रतिपाद्यतादृ क्परापरार्थप्रतिपादकं सत् ॥ अद्वतभाष्य तव समत च त्सोढ़ा ममाऽऽगः पुरतो भवाऽऽशु ॥ १४ ॥ एवं वदन्नयमथैक्षत कृष्णमारा चाभीकरव्रततिचारुजटाकलापम् ॥ विद्युछतावलयवेष्टितवारिदाभं चिन्मुद्रया प्रकटयन्तमभीष्टमर्थम् ॥ १५ ॥ गहाँपदं विदधतं शरदिन्दुबिम्बम् ॥ तापिच्छरीतितनुकान्तिझरीपरितं कान्तेन्दुकान्तघटितं करकं दधानम् ॥ १६ ॥ भवदीयसूत्रे प्रतिपाद्यस्य तादृशस्य निर्विशेषसविशेषार्थस्यै कार्यकारणात्मकस्य वाऽर्थस्य प्रतिपादकमद्वैतभाष्यं तव सत्समीचीनं संमतं चेत्तर्हि ममापराधं क्षमित्वा शीघ्र ममाग्रे प्रत्यक्षो भव । पाठान्तरे भावत्कसूत्रं प्रतिपाद्य तत्तादृक्परापरार्थप्रतिपादकमि त्यर्थः ॥ १४ ॥ [ भावत्केति । भो बादरायण । भवत इदं भावत्कं त्वदीयमेतादृशं यत्सूत्रं ब्रह्मसूत्रामित्यर्थः । प्रतिपाद्योपपाद्य । परापरेति । परः पारमार्थिकोऽद्वैत ब्रह्मात्मरूपः । अपरो मिथ्याभूतो यावदृश्यरूपश्च योऽर्थः पदार्थस्तस्य तयोवा सत्य त्वमिथ्यात्वाभ्यां क्रमात्प्रतिपादकं सदित्यर्थः । एतादृशमद्वैतभाष्यम् । तव यदि तादृ ग्लोवोत्तरत्वेन संमतं मान्यं चेत्तर्हि त्वं ममाऽऽगः खण्डनादिलक्षणमपराधम् । सोद्वा । आशु शीघ्रम् । पुरतोऽग्रतः । ‘स्यात्पुरः पुरतोऽग्रतः' इत्यमरः । भव प्रत्यक्षीकृतनिज वास्तवस्वरूपो भवेत्यन्वयः । लुप्तोपमालंकारः ] ॥ १४ ॥ एवं वदन्पन्नथानन्तरमयं श्रीशंकरः कृष्णमाराडूराद्वलोकितवान् । तं विशिनष्टि । चामीकरत्रततयः सुवर्णमय्यो लतास्तद्वत्सुन्दराणां जटानां कलापो यस्य विद्युलुक्षण लतावलयन वेष्टितैन मेघेन तुल्यं चिन्मुद्रया ज्ञानमुद्रयाऽभीष्टमर्थे प्रकटयन्तम् । वसन्ततिलका बृत्तम् ॥ १५ ॥ पुनस्तमेव पञ्चभिर्विशिनष्टि । अनुरागजुषा रजन्याऽत्यन्तमालिङ्गितं शरचन्द्र बिम्बं निन्दास्पदं कुर्वन्तं यतस्तापिच्छस्तमालस्ततुल्यस्वशरीरकान्तिझरीभिव्यष्टं कान्तो यश्चन्द्रकान्तमाणिस्तेन निर्मितं करकं कमण्डलु दधानम् ॥ १६ ॥ ? क. सूत्रं प्र'। [ सर्गः ७] २ क, ‘स्य प्र'।