पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/२६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमच्छकरदिग्विजयः । [ सर्गः ७ ] रूयबौद्धवैशेषिकदिगम्बराणां कल्पनाऽऽदर्तव्या। उदाहृतश्रुतिविरोधात् । न चाप्शाब्द श्रवणसामथ्यत्प्रश्न प्रतिवचनाभ्यां केवलाभिरद्भिः संपरिष्वक्तो रंहतीति वाच्यम् । तासां भूयस्त्वापेक्षयाऽप्शब्दप्रयोगाविरोधात् । न हि केवलानामपां देहारम्भकत्वं संभवाति । त्रिवृत्करणश्रुतेः । त्रयाणामपि तेजोबन्नानां देहे कार्योपलब्ध्या तस्य त्रया त्मकत्वाच्च । ननु पार्थिवो धातुभूयिष्ठो देहेधूपलक्ष्यत इति चेत्रैष दोषः । इतरापेक्ष याऽपां बाहुल्यसंभवात् । तस्मादप्शब्देन सर्वेषामेव देहबीजानां भूतसूक्ष्माणामुपादानं युक्तम् । किंच माणानां देहान्तरमतिपत्तौ गतिः श्राव्यते । ‘तमुत्क्रामन्तं प्राणोऽनू त्क्रामति प्राणमनूत्क्रामन्तं सर्वे प्राणा अनूत्क्रामन्ति' इत्यादिश्रुतिभ्यः। सा च प्राणानां गतिराश्रयमन्तरेण न संभवतीत्यतः माणगतिप्रयुक्तानां तदाश्रयाणामपामपि भूतान्तररां पसृष्टानां गतिरर्थादवगम्यते । न हि निराश्रयाः प्राणाः कचिद्रच्छान्त तिष्ठन्ति वा जीवतोऽदर्शनात् । वागादीनामग्यादिगतिश्रुतिस्तु गौणी । लोमसु केशेषु चादर्शनात् ओोषधीलमानि वनस्पतीन्केशाः' इति हि तत्र तत्राऽऽम्रायते । न च तेषामुत्लुत्य तेषु गमनं संभवति । न च जीवस्य प्राणोपाधिपत्याख्यानेन गमनमवकल्पते । नापि प्राणै र्विना देहान्तर उपभोग उपपद्यते । तस्माद्वागाद्यधिष्ठात्रीणामयादिदेवतानां वागा द्युपकारिणीनां मरणकाल उपकारनिवृत्तिमात्रमपेक्ष्य वागादयोऽयादीन्गच्छन्तीत्युप चर्यते । यत्तु प्रथमेऽग्रावित्यादि तदपि न दोषावहं यतस्तत्रापि प्रथमेऽौ ता वाक्यमुपपद्यतेऽन्यथा पुनः पञ्चम्यामाहुतावपां पुरुषवचस्त्वप्रकारे पृष्टे प्रतिवचनाव सरे पथमाहुतिस्थाने यद्यनयोहम्यद्रव्यं श्रद्धां नामावतारयेत्ततोऽन्यथा प्रश्रोऽन्यथा प्रतिवचनमित्येकवाक्यता न स्यात् । न च श्रद्धाख्यः प्रत्ययो मानसो जीवस्य वा धर्मः सन्धर्मिणो निष्कृष्य होमायोपादातुं शक्यते पश्चादिभ्य इव हृदयादीनि । तस्मादाप एव श्रद्धाशब्देनोपादेयाः । श्रद्धा वा आप इति वैदिकप्रयोगदर्शनादपि श्रद्धाशब्दस्याप्सृपपातः । गच्छन्तीनामपां बीजरूपतया सूक्ष्मत्वगुणयोगेन माणवके सिहशब्द इव तासु श्रद्धाशब्दो वोपपन्नः । श्रद्धापूर्वककर्मसमवायाचाप्सु श्रद्धाशब्द उपपद्यते पुरुषेषु मञ्चशब्द इव । ‘आपो हास्मै श्रद्धां संनमन्ते पुण्याय कर्मणः’ इति श्रुतेः । श्रद्धाहेतृत्वाच तासु श्रद्धाशब्दोपपातिः । यद्यप्यत्र जीवानां श्रवणं नास्ति तथाऽपि य इष्टापूर्तादिकारिणः पितृयाणेन गन्तारः श्रुतास्त एवेहापि प्रतीयन्त इत्याद्यनेकप्रकारेण खण्डितवान् । बृहस्पतिशेषनागतुल्यवाचोस्तयोर्वाकलहो दिनाष्टकं जनृम्भ । उपन्द्रवत्रा वृत्तम् ॥ ९ ॥