[ सर्गः ७ ] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । २६१ इत्युक्तमर्थ निशमय्य तेन स वावदूकः शतधा विकल्प्य ॥ अस्वण्डयत्पण्डितकुञ्जराणां मध्ये महाविस्मयमादधानः ॥ ८ ॥ अनूद्य सर्व फणितं तदीयं सहस्रधा तीर्थकरश्वखण्ड ॥ तयोः मुराचार्यफणीन्द्रवाचो र्दिनाष्टकं वाकलहो जजूतृम्भे ॥ ९ ॥ दाभ्यां पश्रप्रतिवचनाभ्यामयमर्थः प्रथितः ॥ ७ ॥ [ जीवः करणावसादे करणानी न्द्रियाण्यवसीदन्ति खेदपूर्वकं लीयन्ते यस्मिन्स तथा तस्मिन्मरणकाल इत्यर्थः । तदन्तरप्रतिपत्तिशब्दितदेहान्तरप्राप्त्यवसर इति यावत् । भूतेति । अन्यदेहबी यावत् । जीभूतैर्भूतसूक्ष्मैः श्रोत्रादीन्द्रियादिवदज्ञानलीनैः शब्दादितन्मात्रैरिति सूक्ष्माणि भूतानीति भूतसूक्ष्माणि तैरिति मयूरव्यंसकादिवत्समासो बोध्यः । संवेष्टितो गच्छति रंहति पदोदितदेहान्तरगमनमातनोतीत्यर्थः ] ॥ ७ ॥ इत्येवं प्रकारेण तेनोक्तं सूत्रार्थं श्रुत्वा स वावदूकोऽतिवक्ता ब्राह्मणः शतधा विकल्प्य पण्डितकुञ्जराणां मध्ये विस्मयमादधानोऽखण्डयत्खण्डितवान् । तथाहि । व्यापिनां करणानामात्मनश्च देहान्तरप्रतिपत्तौ कर्मवशादृत्तिलाभस्तत्र भवति । यद्वा केवलस्यैवाऽऽत्मनो वृत्तिलाभस्तत्र भवतीन्द्रियाणि तु देहवदभिनवान्येव तत्र तत्र भोगस्थान उत्पद्यन्ते । यद्वा मन एव केवलं भोगस्थानमभि प्रतिष्ठते । यद्वा जीव एवो त्प्लुत्य देहादेहान्तरं प्रतिपद्यते शुक इव वृक्षादृक्षान्तरम् । किंच देहान्तरप्रतिपत्तौ करणानां जीवेन सह गमनं श्रुतिविरुद्धम् । तथाच श्रुतिः । यत्रास्य पुरुषस्य मृतस्याभिं वागप्येति वातं प्राणश्चक्षुरादित्यं मनश्चन्द्रमसै दशः श्रात्रम् इत्याद्या । अपि च प्रथमेऽमावपां श्रवणाभावात्पञ्चम्यामाहुतावापः पुरुषवचसो भवन्तीति निर्धारयितुं न शक्यते । अत्र हि द्युलोकममुखाः पञ्चाग्रयः श्रद्धादीनां पञ्चानामाहुतीनामाधारत्वेनाधीतास्तत्र प्रथमेऽग्रं श्रुतां श्रद्धां परित्यज्याश्रुतानामपां परिकल्पनं साहसमात्रम् । श्रद्धायाः प्रत्ययविशेषत्वप्रसिद्धेः । किंचास्त्वपां श्रद्धादिक्रमेण पञ्चम्यामाहुतौ पुरुषाकारप्रतिपत्तिस्तथाऽपि तत्परिष्वक्तस्य जीवस्य गमनं तु न वाच्यं तद्रमनस्याश्रुतत्वादित्येवमादिना शतधा विकल्प्य खण्डितवानित्यर्थः ॥ ८ ॥ तदीयं भाषितं सर्वमनूद्य शास्त्रकारः श्रीशंकरः सहस्रधा चखण्ड । न तावत्सां १ क. 'वोत्सृज्य । ३३
पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/२५९
दिखावट