पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/२५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६० श्रीमच्छकरदिग्विजयः । तमब्रवीद्राष्यकृदयवाचं सूत्रार्थविभ्योऽस्तु नमो गुरुभ्यः ॥ सूत्रज्ञताहंकृतिरस्ति नो मे तथाऽपि यत्पृच्छसि तङ्कवीमि ॥ ५ ॥ पप्रच्छ सोऽध्यायमथाधिकृत्य तृतीयमारम्भगतं यतीशम् ॥ तदन्तरेत्यादिकमस्ति सूत्रं ब्रहेतदर्थं यदि वेत्थ किंचित् ॥ ६ ॥ स प्राह जीवः करणावसादे संवेष्टितो गच्छति भूतसूक्ष्मैः ॥ ताििण्डश्रुतौ गौतमजैवलीय प्रश्रोत्तराभ्यां प्रथितोऽयमर्थः ॥ ७ ॥ द्वथा । एतादृशं सूत्रं ब्रह्मसूत्रं यदि समग्रमथैतो वेत्थ ज्ञातवानासि तईि तन्मध्य एकमाप सूत्रामत्याथकम् । अथत उचारय व्याख्यानपृवकमुपपादयत्व भाष्यकृतं मत्येवाब्रवीदित्यन्वयः ] || ४ ॥ एवमुक्तो भाष्यकारस्तं ब्राह्मणं श्रेष्ठां वाचमुवाच। सूत्रार्थविद्भन्यो गुरुभ्यो नमोऽस्तु सूत्रज्ञताभिमानो यद्यपि मम नास्ति तथाऽपि यत्पृच्छसि तद्रवीमि ||५॥ [ अय्यवा चमग्रया पूज्या वाक्यश्रवाणी यस्य तम् । औद्वैतात्मस्मारकत्वादुक्तमश्नवाचोऽप्यन्यत् बोध्यम् ! एतादृशम् । तं प्रागुक्तवृद्धब्राह्मणं प्रति । इत्यब्रवीदुवाचेत्यर्थः । इतीति ि तदेवाऽऽह । सूत्रेत्यादित्रिपाद्या ] ॥ ५ ॥ अध भाष्यकारोक्तिरनन्तरं स ब्राह्मणो यतीशं पप्रच्छ । यत्पृष्टवांस्तदाह । तृती यमध्यायमधिकृत्य ततीयाध्याय अारम्भगतम् । तदन्तरप्रतिपत्तौ रंहति संपरिष्वक्त मश्रनिरूपणाभ्याम्' इति सूत्रमस्त्येतस्यार्थ यदि त्वं किंचिज्जानासि तर्हि बूहि ॥६ एवं पृष्टः स भाष्यकार उक्तसूत्रस्याथै प्रोक्तवान् । जीवः करणानामिन्द्रियाणा वसादे मरणसमये देहान्तरप्रतिपत्तौ देहबीजैर्भूतसूक्ष्मैः संपरिष्वक्तः संवेष्टितो रंहाँ गच्छतीत्यवगन्तव्यम् । कुत । प्रश्रनिरूपणाभ्यां ताडिश्रुतैौ गौतमजैवलीयप्रश् प्रतिवचनाभ्याम्। श्रस्तावद्वेत्थ यथा ‘पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति’ इति प्रतिवचनं च द्युपर्जन्यपृथिवीपुरुषयोषित्सु पञ्चस्वमिषु श्रद्धासोमवृष्टयन्नरेतोरूर पञ्चाऽऽहुतीर्शयित्वेति तु पञ्चम्यामाहुतावाप *: पुरुषवचसो भवन्तीति । तस्म

  • अश्शब्देन सर्वेषामेव देहबीजानां भूतसूक्ष्माणामुपादानम् ।

[ सर्गः ७ ] १ क. ग. त्त्व जाना '।