सामग्री पर जाएँ

पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/२५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ सर्गः ७ ] धनपतिसूरिकृताडॉण्डमाख्यटीकासंवलितः । श्रान्तेष्वथाधीत्य शनैर्विनेये पष्वाचार्य उत्तिष्ठति यावदेषः ।। तावद्विजः कश्चन वृद्धरुप कस्त्वं किमध्यापयसीत्यपृच्छत् ॥ २ ॥ शिष्यास्तमूचुर्भगवानसौ नो गुरुः समस्तोपनिषत्स्वतन्त्रः । मकारि शारीरकसूत्रभाष्यम् ॥ ३ ॥ स चाब्रवीद्राण्यकृतं भवन्त मेते वदन्त्यदुतमेतदास्ताम् ॥ अथकमुच्चारय पारमष यतेऽर्थतस्त्वं यदि वेत्थ सूत्रम् ॥ ४ ॥ २९५९ ञ्शिष्यपङ्गिशङ्काः शमयत्रुवास यावत्कालं सूर्य आकाशस्य मध्यभितः प्राप्तः । उप जातिवृत्तम् ॥ १ ॥ [ शारीरकेति । शीर्यते प्रतिक्षणं नश्यतीति शारीरं स्थूला दिदेहस्तत्र भवस्तादात्म्याध्यायेन संजात इवेति शारीरो जीवस्तस्य कं दृश्योच्छे दपूर्वकमद्वैतब्रह्मात्यैक्यलक्षणमोक्षसुखं श्रवणादिजन्यज्ञानद्वारा येन तत्तथा तच तत्सू त्रम् ‘अथातो ब्रह्मजिज्ञासा' इत्यादि 'अनावृत्तिः शाब्दादनावृत्तिः शब्दात्' इत्यन्तं ब्रह्मसूत्रं यत्स्वकृतं भाष्यं तदित्यर्थः ] ॥ १ ॥ शनैरधीत्य श्रान्तेषु शिष्येषु सत्सु यावदेष भाचार्यः शनैरुत्तिष्ठति तावदृद्धरूप कश्चन ब्राह्मणस्त्वं कः किं पाठयसीति पृष्टवान् । इन्द्रवज्रा वृत्तम् ॥ २ ॥ प्रोत्तरं भगवा निति । द्वितीयस्योत्तरमाहुः । अनेन दूरीकृतो भेदवादो यत्र तच्छारीरकसूत्रभाष्य मकारि कृतं तदेव पाठयतीत्यर्थः । उपजाति वृत्तम् ॥ ३ || [ अत्र भगवानित्यनन धरावतारत्वं व्यज्यते । तन जीवकोटिनिविष्टसामान्यगुरुव्यावृत्तद्यात्यत । अत एव । समस्तेति । निखिलोपनिषदामपि निरर्गलतात्पयनुभववानित्यर्थे । न तु श्रोत्रियब्रह्मनिष्टगुरुवत्स्वशाखोपनिषन्मात्रतात्पर्यज्ञ इति यावत् । अत एवाने त्यादि ] ॥ ३ ॥ एवं शिष्योक्तं निशम्य स च ब्राह्मणो भाष्यकारमभाषत । एते त्वां भाष्यकारं वदन्त्येतददुतमास्तां तिष्ठतु हे यते यदि त्वं परमर्षिणा वेदव्यासेन प्रोक्तं सूत्रमर्थतो जानासि त कमपि तत्सूत्रमुचारय तदर्थव्याख्यानायैकस्य सूत्रस्योच्चारणं कुर्वि त्यर्थः ॥ ४ ॥ [ हे यते संन्यासिंस्त्वं यदि पारमर्षे परमर्षिणा बादरायणेन प्रणीतं