पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[सर्ग १]
२१
धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः ।


अथेन्द्रो नृपतिर्भूत्वा प्रजा धर्मेण पालयन् ॥
दिवं चकार पृथिवीं स्वपुरीमरावतीम् ॥ ५८॥
सर्वज्ञोऽप्यसतां शात्रे कृत्रिमश्रद्धयाऽन्वितः ।
प्रतीक्षमाणः क्रौञ्चारिं मेलयामास सौगतान् ॥ ५९ ॥
ततः स तारकारातिरजनिष्ट महीतले ।।
भट्टपादाभिधा यस्य भूषा दिक्सुदृशामभूत् ॥ ६० ॥
स्फुटयन्वेदतात्पर्यमभाज्जैमिनिसूत्रितम् ॥
सहस्रांशुरिवानूरुव्यञ्जितं भासयञ्जगत् ॥ ६१ ॥




तेषामनीकम् । ‘अनीकोऽस्त्री रणे सैन्येऽपि' इति मेदिन्याः । सैन्यं तस्य पतिः सेना
नीरित्यर्थः ] ।। ५७ ॥
 दिवं स्वर्गम् ॥ ५८ ॥ [ अथेति । नृपतिः सुधन्वाभिवो भूपतिरित्यर्थः] ।। ५८ ।।

 कृत्रिमया रचितया श्रद्धया युक्तः। क्रौञ्चारेिं श्रौश्चाख्यपर्वतस्य शत्रं गुहम् ॥५९॥
[ असतां बौद्धानाम् । क्रौञ्चारिम् ' कुमारः क्रौञ्चदारणः' इत्यमरात्मागुक्तरीत्या
प्रकटितावतारं स्कन्दमित्यर्थः ] ।। ५९ ।।
तारकस्य दैत्यविशेषस्यारातिः शत्रुः स्कन्दो महीतलेऽजनिष्ट प्रादुरभूद्यस्य भट्टपाद
इत्यभिधा संज्ञा दिक्सुदृशां दिगङ्गनानां भूषाऽलंक्रियाऽभूत् ॥ ६० ॥ [ तारकेति ।

 ‘बाहुलेयस्तारकजित्' इत्यमरात्स्कन्द इत्यर्थः ] ।। ६० ।।
अवतारकृत्यं दर्शयति । स्फुटयन्निति । जैमिनिना सूत्रैः सूचितं वेदस्य तात्पर्य
स्फुटयन्नभाद्राजत् । यथाऽनूरुणाऽरुणेन व्यञ्जितं किंचित्पकाशितं जगत्सम्यग्भासय
न्सहस्रांशुः सूर्यो राजते तद्वदित्यर्थः ।। ६१ । [ जैमिनीति । जैमिनिना सूत्रितम्

 ‘अथातो धर्मजिज्ञासा’ इत्यादिद्वादशलक्षण्या पूर्वमीमांसया सूचितमित्यर्थः । [वेदेति ।
पक्षीन्द्रः फणीन्द्रमत्तीत्यादौ फणीन्द्रपदस्य तच्छिरोवयवीभूतमणिविशेषेतरयावत्तच्छरी
रावयवविशेषशक्तिवद्वेदपदस्यापि प्रकृते वेदान्ताख्योत्तरकाण्डेतरपूर्वकाण्ड एव शक्तिः ।
अन्यथोपनिषत्काण्डस्यापि तेनैव व्याख्यातत्वापत्तेः । स्फुटयंस्तदीयशावरभाष्योपरि
वार्तिकद्वयद्वारा प्रकाशयन्सन्निति यावत् ] ।। ६१ ।।
 


१ क. ख. 'पादोऽभि'।