पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[सर्ग १]
१९
धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः ।

क्षीरनीरनिधेवचिसचिवान्प्राप्य तान्गुहः ॥
कटाक्षान्मुमुदे रश्मीनुदन्वानैन्दवानिव ॥ ४६ ॥
अवदन्नन्दनं स्कन्दममन्दं चन्द्रशेखरः ॥
दन्तचन्द्रातपानन्दिवृन्दारकचकोरकः ॥ ४७ ॥
शृणु सौम्य वचः श्रेयो जगदुद्धारगोचरम्।
काण्डत्रयात्मके वेदे प्रोदृते स्याद्विजोदृतिः ॥ ४८ ॥
तद्रक्षणे रक्षितं स्यात्सकलं जगतीतलम् ॥
तदधीनत्वतो वर्णाश्रमधर्मततेस्ततः ॥ ४९ ॥
इदानीमिदमुद्धार्यमितिवृत्तिमतः पुरा ॥
मम गूढाशयविदौ विष्णुशेषौ समीपगौ ॥ ५० ॥
मध्यमं काण्डमुद्धर्तुमनुज्ञातौ मयैव तौ ।
अवतीयशतो भूमौ संकर्षणपतञ्जली ॥ ५१ ॥
मुनी भूत्वा मुदोपास्तियोगकाण्डकृतौ स्थितौ ।
अग्रिमं ज्ञानकाण्डं तूद्धरिष्यामीति देवताः ॥ ५२ ॥




 क्षीरनीरानधेः क्षीरसमुद्रस्य वीचिभिस्तुल्यान्कटाक्षान्प्राप्य गुहः कुमारो मुमुदे ।
यथा क्षीराब्धिवीचिसहकृतांस्ततुल्यान्वा चन्द्रसंबन्धिनो रश्मीन्प्राप्य जलधिमदमाम्रो
ति तद्वत् ॥ ४६ ॥
 चन्द्रशेखरः शिवः स्वसुतममन्दं बुद्धिमन्तं स्कन्दमवददुक्तवान् । चन्द्रशेखरं विशि
नष्टि । दन्तात्मकैश्चन्द्रातपैश्चन्द्रज्योत्स्राभिरानान्दनो वृन्दारका देवा एव चकोरक
यस्य दन्तलक्षणानां चन्द्राणामातपैरिति वा । पाठान्तरे तु क्रियाविशेषणम् || ४७ ॥
[ अमन्दं स्पष्टं यथा भवति तथा ] ॥ ४७ ॥
 यदुवाच तदुदाहरति । जगदुद्धारविषयं श्रेयःसाधनं वचनं हे सौम्य शृणु श्रोतुं
सावधानो भव । काण्डत्रयात्मके कर्मोपासनाज्ञानभेदेन वृन्दत्रयात्मके वेदे प्रकर्षणोट्टते
सति द्विजानामुदृतिः स्यात् ॥ ४८ ॥ [ द्विजेति । ब्राह्मणक्षत्रियवैश्यानां भोगमोक्ष
सिद्धयोद्धार इत्यर्थः ] ॥ ४८ ॥
 तेषां द्विजानां रक्षणे सति समस्तं जगतीतलं राक्षतं स्यात् । वर्णाश्रमधर्माणां तते
संततेस्तदधीनत्वतो द्विजाधीनत्वात् । तत इत्युत्तरान्वयि ।। ४९ ।।
 


१ ख. ग. सोम्य । २ ख. ग. सोम्य । ३ क. ग. 'नत्वतः । त'।