पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१८
[सर्गः १]
श्रीमच्छंकरदिग्विजयः ।

इत्युक्त्वोपरतान्देवानुवाच गिरिजाप्रियः ।
मनोरथं पूरयिष्ये मानुष्यमवलम्ब्य वः ।। ४० ।।
दुष्टाचारविनाशाय धर्मसंस्थापनाय च ।।
भाष्यं कुर्वन्ब्रह्मसूत्रतात्पर्यार्थविनिर्णयम् ॥ ४१ ॥
मोहनप्रकृतिद्वैतध्वान्तमध्याह्नभानुभिः ॥
चतुर्भिः सहितः शिष्यैश्चतुरैर्हरिवदुजैः ॥ ४२ ।।
यतीन्द्रः शंकरो नाम्रा भविष्यामि महीतले ।।
मद्वत्तथा भवन्तोऽपि मानुषीं तनुमाश्रिताः ।। ४३ ॥
तं मामनुसरिष्यन्ति सर्वे त्रिदिवासिनः ॥
तदा मनोरथः पूणां भवतां स्यान्न संशयः ॥ ४४ ॥
बुवन्नेवं दिविषदः कटाक्षानन्यदुर्लभान् ।।
कुमारे निदधे भानुः किरणानिव पङ्कजे ॥ ४५ ॥




 मानुष्यमवलम्ब्य मनुष्यभावमाश्रित्य वो युष्माकं मनोरथं वाञ्छां ॥४०॥
किं कुर्वन्नित्यपेक्षायामाह । दुष्टाचारविनाशायेति । ब्रह्ममतिपादकानां सूत्राणां ता
त्पर्यार्थस्य विशेषेण निर्णयो येन तत् ।

अल्पाक्षरमसंदिग्धं सारवाद्विश्वतोमुखम् ।
अस्तोभमनवद्य च सूत्रं सूत्रविदो विदु ।
सूत्रार्थो वण्यैते यत्र वाक्यैः सूत्रानुकारीभिः ।
स्वपदानि च वण्थैन्ते भाष्यं भाष्यविदो विदुः ।


 इति सूत्रभाष्यलक्षणश्लोकः द्रष्टव्यौ ॥ ४१ ॥
 मोहनमज्ञानं पछतिरुपादानं यस्य तच तद्वैतमेव ध्वान्तं गाढं तमस्तस्य निरसने
मध्याह्नसूयैश्चतुर्भिश्चतुरैः कुशलैः शिष्यैः सहितश्चतुर्भिर्भुजैर्हरिवत् ॥ ४२ ॥ [ च
तुरैः शास्त्राद्यखिलव्यवहारकुशलैः ] ॥ ४२ ॥
 यतीन्द्रो नाम्रा शंकरो महीतले भविष्यामि तथा भवन्तोऽपि मानुषीं तनुमाश्रि
ताः सर्वे स्वर्गवासिनो देवास्तं यतीन्द्रं शंकरं मामनुपरिष्यन्ति तदा भवतां मनोरथः
पूर्णः स्याद्भविष्यति न संशयोऽस्मिन्नर्थे संशयो न कर्तव्य इत्यर्थः ।। ४३ [ यतीन्द्र
परमहंसपरिव्राजकाचार्यः ] ।। ४३ ।। ४४ ।।
 ततो-यदृत्तं तदाह । बुवन्निति । एवमनेन प्रकारेण दिविषदो देवान्प्रति बुव
न्सोऽन्यदुर्लभान्कटाक्षान्कुमारे स्वामिकार्तिके निदधे यथा सूर्यः पङ्कजे किरणान्स्थापय
ति तद्वदित्यर्थः ॥ ४५ ॥