|
स्वोत्कर्षमयुक्तकान्तन्यूनत्वसंपादनमिति यावत् । तदुक्तं मदीये साहित्यसारे ।
रूपादिना निजोत्कर्षाद्रवऽन्यस्यावहेलनम् । |
इति । ‘गर्वोऽभिमानोऽहंकारः' इत्यमरः । त्यक्त्वा तं पूर्वपरिचितम् । अत एव ।
प्रेयांसम । स्वानन्यमीतिविषयीभूतमित्यर्थः । एतादृशम् । परेति । परः सर्वोत्कट
श्रवासैौ हंसः पूर्वोक्तमेदिन्याः श्रीरामादिलक्षणो नृपश्चति तथा तं निरुनकरूपं स्वकान्त
मिति यावत् । एत्य प्राप्य पुनस्तदूध्र्वमसौ निरुक्तसीतादिमानवती । संस्पष्टुं लज्जा
तिशायात्स्वयमेव गाढमालिङ्गिन्तुमित्यर्थः । अधीरा सती सपदि तत्कालम् । लयमगा
दन्तःपुरकोणादौ लीलया निलीनाऽऽसीदिति संबन्धः । एतेन नायिकायां चातुर्या
तिशयो व्यज्यते । तद्वीपदे निरुक्तसमासानाश्रयणे तु डिण्डिमादृता समासोक्तिरवा
लंकृतिः । तदुक्तम् ।
'समासोक्तिः परिस्फूर्तिः प्रस्तुतेऽप्रस्तुतस्य वेत् । |
इति ] ।। १२६ ।।
यत्र सूर्यादीनामपि स्फुरणं न संभवति तत्र बुद्धिस्फुरणस्य का पत्याशेत्याशये
नाऽऽह । नेति । कृशानुरमी रोदस्यौ द्यावांभूम्यौ । अविरतं सततं घनीभूतस्चसुखर
सविग्रहे चिदाकाशे सूर्यादयो न स्फुरन्तीत्यर्थः । तथाच श्रुतिः ।
‘न यत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमानि ' |
इत्याद्या ॥ २७ ॥ [ ' अस्मिन्यत्साक्षादपरोक्षाद्रह्मा ' इति श्रुतेरात्मत्वस्वमका
शत्वाभ्यां नित्यापरोक्ष इति यावत् । एतादृशेऽजलदे डलयोः सावण्यजडं दृश्यं
ददात्येतादृशं यन्मूलाज्ञानं तद्धीन इत्यर्थः । ईदृशे चिदाकाशे । केवलं सृर्याघेव
न स्फुरतीति न किंतु वयं द्यावापृथिव्यौ तथा समयशब्दितं कालमपि निभेषा
दिलक्षणं न विद्म इति योजना । काव्यार्थापत्तिरलंकारः ।
'कैमुत्येनार्थसंपत्तिः काव्यार्थापत्तिरिष्यते । |
इति वचनातू ] ॥ २७ ॥