पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/१८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[सर्ग:५]
१८५
धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः ।


व्यासः पराशरमुतः किल सत्यवत्यां
तस्याऽऽत्मजः शुकमुनिः प्रथितानुभावः ॥
तच्छिष्यतामुपगतः किलगौडपादो
गोविन्दनाथमुनिरस्य च शिष्यभूतः ॥ १०५ ॥
शुश्राव तस्य निकटे किल शास्रजालं
यश्चाशृणोद्धजगसद्यगतस्त्वनन्तात् ॥
शब्दाम्बुराशिमखिलं समयं विधाय
यश्चाखिलानि भुवनानि बिभर्ति मूर्धा ॥ १०६ ॥




तिबद्धत्वेन सद्य:फलजनकत्वान्निरुपमत्वमेव । स सम्यगपरोक्षो येनेश्वरादिगुरुपारं
पर्येण स संप्रदायः सदुरुपरंपराविशेषस्तत्र भवः सांप्रदायिक एतादृशो यः पराश
रस्तस्य यः पुत्रः सत्यवत्यां समुत्पन्नो बादरायणस्तेन प्रोक्तानि यानि सूत्राणि
अथाता ब्रह्माज्जज्ञासा ’ इत्यादि ‘अनावृत्तिः शब्दात्' इत्यन्तानि चतुरध्या
यात्मकान्यद्वैतब्रह्मसूचकवाक्यानीत्यर्थस्तेषां यन्मतं संमतमद्वैतं ब्रह्म तद्विषयिणी या
गतिः सरणिः प्रक्रियेति यावत्तस्या योऽनुरोधेोऽनुसारस्तस्माद्धेतोरित्यर्थः । `हृदया
लोः ‘हृदयालुः सहृदयः' इत्यमरात्सहृदयस्य भगवतो वेदव्यासस्येत्यर्थः][अत्र सांपदा
यिकेत्यनेन सूत्रे भ्रमप्रमादविमलिप्साशून्यत्वं ध्वन्यते] [सुबुद्धिपदेनाऽऽचार्येऽद्वैतावि
द्याप्रतिष्ठापकत्वं व्यज्यते । शास्त्रेत्यनेन तत्तात्पर्यस्य तदितरदुरवगाह्यत्वं द्योत्यते ।
छत्नपदेनैकदेशित्वं व्युदस्यते ] ॥ १०४ ।।
 संप्रदायबोधनाय गुरुपरंपरां दर्शयति । व्यास इति । सत्यवत्यां पराशरमुनेः पुत्रो
व्यासस्तस्य मथितानुभावः शुकमुनिः सुतस्तस्य शिष्यतां प्राप्तो गौडपादोऽस्य गोविं
न्दनाथमुनिः शिष्यभूतः । वसन्ततिलका वृत्तम् ॥ १०५ ॥
 तस्य गोविन्दनाथमुनेः समीपे शास्त्रकदम्बं श्रीशंकरः शुश्राव यश्च गोविन्दनाथः
शेषालयं गतो भवदीयं शास्त्रं भूतले प्रवर्तयिष्य इति संकेतं विधाय शब्दशास्त्रसमुद्र
शेषादशृणोत् । यश्चानन्तो निखिलानि भुवनानि शिरसा धारयाति ॥ १०६ ॥
[ शुश्रावेति । श्रीशंकराचार्य इत्यार्थिकम् । प्रकृतत्वात् । किलेत्यवधारणे । तस्यैव
निकटे । शास्त्रजालं शुश्राव महावाक्यचतुष्टयश्रवणमात्रेणैव संपूर्णोत्तरमीमांसामवबुद्ध
वानित्यर्थः । तच्छब्दाकाङ्कक्षितं पूरयति । यश्चेत्यादिपादाभ्याम् । यस्तु भुजगेति ।
पातालगतः सन्ननन्ताच्छेषात् । समयं-


* एतेन मूले हृदयं हि दयान्लोरित्यत्र हृदयं हृदयालेोरित्येवं पाठ इति ज्ञायते । आदर्शपुस्तक्षु तु स नोपलभ्यते ।