पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/१८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[सर्ग:५]
१८३
धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः ।

ब्रह्मार्थो दुर्लभोऽत्र स्याद्वितीये सति वस्तुनि' इति

 वार्तिकोक्तलक्षणं त्रिविधपरिच्छेदवैधुर्यं ब्रह्मत्वमेवोक्तमिति तु निर्विवादमेव । समन्वयाध्याये हि ‘अथातो ब्रह्मजिज्ञासा’ इति प्रतिज्ञाय ब्रह्मण्येव सर्ववेदान्तानां तात्पर्यपर्यवसानं वर्णितमिति निरुक्तवाक्योक्ततदभेदाचिन्मात्र एव समन्वयः सुघट एवेति युक्तमेव प्रथमवाक्योपदेशेन प्रथमाध्यायार्थाकलनम् । एवम् ‘अहं ब्रह्मास्मि' इति यजुर्वेदमहावाक्येऽप्यहंकारोपलक्षितात्मन एव ब्रह्मत्वं पमीयते । तथा चाविरोधाध्याये सर्वेप्रमाणाविरोधो योऽभिहितसमन्वयेन सहोक्तः स तावद्यावत्प्रमाणानां प्रत्यक्षेक मूलकत्वात्तस्यापि नित्यापरोक्षस्वप्रकाशात्ममात्रायत्तत्वात्तद्रह्मत्वावबोधेनाक्गन्तुं सुकर एवेति समुचितमेव द्वितीयवाक्येन द्वितीयाध्यायार्थाकलनमपि । तथा ‘तत्त्वमसि’ इति सामवेदमहावाक्ये तु जीवस्य ब्रह्माभेदोपदेशः स्फुट एव । तेन साधनेषु सर्वेषु मध्ये साक्षादुपकारकं ब्रह्मज्ञानमेव मोक्षसाधनामिति साधनाध्यायस्य तृतीयस्य तृतीयवाक्ये नाऽऽकलनं युक्तमेव । एवम् ‘अयमात्मा ब्रह्म' इत्यथर्ववेदमहावाक्येऽपि नित्यापरोक्षस्या ऽऽत्मनो ब्रह्मत्वोक्तमोक्षाख्यफलस्याविद्याध्वंसरूपस्यापि तद्नतिरेकाचतुर्थवाक्येनापि तेन चतुर्थाध्यायस्य फलाभिवम्योचितमेवाऽऽकलनमिति । अन्यथा यदि चतुर्लक्षण्यर्था वगमाथै चत्वारि महावाक्यानि निरुक्ताचार्यः प्रकृते कथंचिदपि नैवोपदिदेशा किं त्व तब्रह्मात्मैक्यसाक्षात्कारार्थमेवेति बूषे चेत्सांप्रदायिकेत्याद्यव्यवहितोत्तरपद्ये निरुक्तोप देशस्य कृत्स्नोत्तरमीमांसाशास्त्रार्थावबोधलक्षणं फलं नैव वर्णितं स्यात्कित्वविद्याध्वं सोपलक्षितदृश्योच्छेदरूपमेव तदभिहितं स्यात् । किंच श्रीमच्छंकरभगवत्पादस्य हि कुलक्रमागता शाखा तैत्तिरीयैवेति तु मागेवोपपादितं प्रसिद्धमेव च तथा लोकेऽपि। तस्य सर्वज्ञत्वेऽपि लोकसंग्रहार्थानुष्ठेयगुरूपसतिपूर्वकसंन्यासानुष्ठानादिसहिताद्वैत ब्रह्मसाक्षात्कारफलकमहावाक्योपदेशे स्वशाखीयमेव तदुपदेष्टव्यम् । ततु नैवास्ति निरुक्तचतुष्वपि । ननु कोऽयं निर्बन्धो यत्वशाखीयमेव महावाक्यमुपदेष्टव्यम धिकारिणे ब्रह्मात्मैक्यसाक्षात्कारार्थमितिचेतुल्यः पर्यनुयोगोऽयं वेदशिरोवाक्येऽपि । जीवबौक्यावबोधस्य स्मृत्यादिवाक्येभ्योऽपि संभवात्तादृशवाक्यानाम् क्षेत्रज्ञ चापि मां विद्धि’ इति स्मृत्यादिष्वपि दर्शनाच। न च ‘वेदान्तविज्ञानसुनिश्चितार्थाः' इत्यादिश्रु तिभिः 'श्रोतव्यः श्रुतिवाक्येभ्यः' इत्यादिस्मृतिभिश्च श्रुतिशिरोवाक्यमात्रगम्यत्वस्या विकारिविशेषसाध्यब्रह्मात्मैक्येऽभिहितत्वान्निरुक्तस्मृत्यादिमहावाक्यानां तदुपबृहकत्वेन तदेकानुग्राहकत्वाच वेदशिरोवाक्यमेवावश्यमुक्तबोधेऽपेक्षितमिति वाच्यम् । एवं शास्त्र सत्त्वस्य तदीयस्वशाखीयत्वेऽपि तुल्यत्वात् । तथा चोक्तं संक्षेपशारीरके ।

'स्वाध्यायधर्मपठितं निजवेदशाखा वेदान्तभूमिगतमाद्रपालितं च. ॥