पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१२
[सर्गः १]
श्रीमच्छंकरदिग्विजयः ।

नेता यत्रोछसति भगवत्पादसंज्ञो महेश
शान्तिर्यत्र प्रकचति रसः शेषवानुज्ज्वलाचैः ॥
पत्राविद्याक्षतिरपि फलं तस्य काव्यस्य कर्ता
धन्यो व्यासाचलकविवरस्तत्कृतिज्ञाश्च धन्याः ॥ १७ ॥




 निम्रोन्नतानि तैरित्यर्थः । [ कूराणां कठोरवाचाम् । पक्षे निर्दयानाम् । कुकवी
नामित्यार्थिकम् । [एणीव हरिणीव मम वाणी वशगा स्यात्तेषां भुवि बहुत्वादस्याश्चै
कत्वात्तत्परवशा स्याद्भयादेत्यन्वयः ] | १६ ॥

 एवं तर्हि किमर्थं काव्यरचनायां प्रवृत्तस्त्वामेति चेच्छूशंकराचार्यस्य गुणानुवर्णनेन
स्वस्य कृतकृत्यतासंपादनार्थमित्याशयेनाऽऽह । नेता यत्रेति । यत्र यस्मिन्काव्ये भग
वत्पादेति संज्ञा यस्य स महेशो नेता मुख्यः स्वामी वगर्य इति यावत् । उलुसात प्रकाशते।
तस्य काव्यस्य ‘तददोषौ शब्दार्थों सगुणावनलंकृती पुनः कापि' इत्युक्तस्वरूपस्य प्रभु
संमितशब्दप्रधानवेदादिशास्त्रेभ्यः सुहृत्संमितार्थतात्पर्यवदितिहासपुराणादिभ्यश्च शब्दा
थयोर्गुणभावेन रसाङ्गभूतव्यापारप्रवणतया विलक्षणस्य कान्तेव सरसतापादनेनाभिमुखी
कृत्योपदेशकर्तुलकोत्तरवर्णनानिपुणस्य कवेः कर्मणः कर्ता व्यास इवाचवलः स्थिरश्वासैौ
कविश्रेष्ठश्रेति व्यासाचलकविवरो माधवो धन्यः कृतकृत्यः । नन्वविद्याक्षतिपूर्वकब्रह्मा
नन्दपाया कृतकृत्यताया वेदान्तसिद्धान्तत्वात्कथं तद्वद्यतिरिक्तरसयुक्तकाव्यकरणेन
कृतकृत्यतेत्यत आह । यत्र यस्मिन्काव्ये शान्तिः शान्तिसंज्ञो रसः प्रकचवति
प्रकाशते । रसं विशिनष्टि । उज्ज्वलाचैः शेषरुपसर्जनभूतैः शेषवाञ्शेषी प्रधानभृत
इति यावन् । उज्ज्वलः शृङ्गार-

'शृङ्गारः शुचिरुज्ज्वलः' इत्यमरः ।


 आद्यपदेन वीरकरुणादुतहास्यभयानकबीभत्सरौद्राख्या रसा गृह्यन्ते । यत्र यस्मि
काव्येऽविद्याक्षतिरपि फलम् । क्षतेरन्यत्र फलत्वाभावादपिशब्द । तथाचैवंविधका
व्यकर्ता धन्य एवोति भावः । तस्य माधवस्य कृतिं यत्नं जानन्तीति तत्कृतिज्ञास्तेऽ
पि वन्याः । मन्दाक्रान्ता-
 'मन्दाक्रान्ता जलधिषडगैम्भ नैतौ तादुरू चेत्' इति लक्षणात् ॥ १७ ॥
 [शेषवानङ्गवानित्यर्थः]। [व्यासेति । व्यासो भगवान्बादरायणः प्रसिद्ध एव तद्वद्
चल : सर्वमान्यत्वेनाखण्ड्यः स चासौ कविवरश्चोति तथा]|| १७ ॥