पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/१०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१००
[सर्गः ४]
श्रीमच्छंकरदिग्विजयः ।

दिवि कल्पतरुर्यथा तथा
भुवि कल्याणगुणो हि शंकरः ।
सुरभूमुरयोरपि प्रियः
समभूदिष्टविशिष्टवस्तुदः ॥ ३२ ॥
अमरस्पृहणीयसंपर्द
द्विजवर्यस्य निवेशमात्मवान् ।
स विधाय यथापुरं गुरो
सविधे शास्रवराण्यशिक्षत ॥ ३३ ॥
वरमेनमवाप्य भेजिरे
परभागं सकलाः कला अपि ।
समवाप्य निजोचितं पतिं
कमनीया इव वामलोचनाः ॥ ३४ ॥
सरहस्यसमग्रशिक्षिता
खिलविद्यस्य यशस्विनी वपुः ॥
उपमानकथाप्रसङ्गम
प्यसहिष्णु श्रियमन्वपद्यत ॥ ३५ ॥




 स्वर्गे कल्पवृक्षेो यथा तथा भूमौ कल्याणगुणः शंकर इष्टानि यानि श्रेष्ठानि वस्तू
नि तानि ददातीति तथाभूतः समभूत् । किंच स तु देवमियोऽयं तु देवस्य विप्रस्य
चत्र पियः ॥ ३२ ॥
 एवमाकृतं तचरितमुपवण्योपसंहरति । अमरैर्देवैः प्रार्थनीया संपद्यस्मिन्नेतादृशं
द्विजश्रेष्ठस्य गृहं विधाय स आत्मवान्यथापूर्वं गुरोः सविधे समीपे शास्त्रवराण्यशिक्षत
॥ ३३ ॥ [ अशिक्षताभ्यस्तवानित्यर्थः ] ॥ ३३ ॥
 वामलोचनाः कपटदृष्टयः स्त्रियः कमनीयाः सुन्दर्यः स्वोचितं पतिं प्राप्य यथा परं
भागं भाग्यं प्राप्नुवन्ति तथा सर्वाः कला अप्येनं श्रीशंकरं वरं माप्य परं भाग्यं
मापुरित्यर्थः ॥ ३४ ॥ [ कलाः संगीताद्याः । सकलाः संपूर्णाश्चतुःषष्टिसंख्याकत्वेन
शास्त्रान्तरप्रसिद्धा अपीत्यर्थः ] ॥ ३४ ॥
 सरहस्यं समयं यथा स्यात्तथा शिक्षिताऽखिला विद्या येन तथाभूतस्य यशस्विनः
श्रीशंकरस्य वपुः शारीरमुपमानकथायाः प्रसङ्गमप्यसहिष्ण्वपूर्वा शोभां प्राप्तवत् ॥ ३५॥


१ ग. भारयमामु। २ रा. 'हिष्णु श्रियमपू।