पृष्ठम्:श्रीपाञ्चरात्ररक्षा.djvu/९९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३४
श्रीपाञ्चरात्ररक्षा

"वैदिकैस्तान्त्रिकैर्वापि श्रौतैर्वा द्विजसत्तम ।
स्वयंव्यक्ते तु भवने मिश्रैर्वा देवमर्चयेत् ॥
ऋष्याद्विपूजिते स्थाने पारम्पर्यक्रमं विना ।
विशेषं नाचरेत् किंचिद्राज-राष्ट्रसमृद्धये ॥" इति

अत्र स्वयंव्यक्तस्थाने चतुर्णां पूजाविशेषाणां यथारुचि विकल्पेन परिग्रहं प्रतिपाद्य, ऋष्यादिपूजितेषु स्थानान्तरेषु पारम्पर्यक्रममन्तरेण मात्रयापि "विशेषं नाचरेत्" इत्युक्तत्वात् यत्र[१] स्वयंव्यक्ते विकल्पेन कर्मणां प्रवृत्तिः संभवति[२] तत्रैवापकृष्टफलशास्त्रपरित्यागेन उत्कृष्टफलशास्त्रपरिग्रहवचनं लिङ्गवशान्नेतव्यम् । पवित्रं दक्षिणे कर्णे इति लिङ्गात् "दिवा सन्ध्यासु कर्णस्थब्रह्मसूत्रं" इत्यस्य स्थाननियमवत् प्रतिनियतस्वयंव्यक्तेषु स्थानेष्विति व्यक्तमवसीयते । अस्मिन्नेवोत्तरत्र प्रायश्चित्ताध्यायेऽपि 'वैदिकैस्तान्त्रिकैर्वा' इत्यादि श्लोकद्वयं पुनः पठितम् । 'मानुषे भवने देवं तन्त्रमार्गेण पूजयेत्' इति चोक्तम् । पुनश्च-

"यद्बिम्बं येन शास्त्रेण समारब्धं पुरा द्विजः ।
प्रासादं वा ततस्तेन शास्त्रेणैव तदर्चयेत् ॥
तच्छास्त्रमन्तरेणैव यो यजेदन्यवर्त्मना ।
राज्ञो राष्ट्रस्य कर्तुश्च स नाशः कर्तुमिच्छति ॥
न कदाचिदपि प्राज्ञः प्रकुर्याच्छास्त्रसङ्करम् ।
शास्त्रसङ्करदोषेण महान् दोषो भवेद्ध्रुवम् ॥"

  1. यत्र-क, ख, ग कोशेषु नास्ति.
  2. संभवतीति-क, ग.