पृष्ठम्:श्रीपाञ्चरात्ररक्षा.djvu/१००

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३५
प्रथमोऽधिकारः

इत्युक्तम् । अतोऽप्यत्रापकृष्टशास्त्रपरित्यागेन उत्कृष्टशास्त्रपरिग्रहवचनं स्वेनैव नानाशास्त्रार्थविकल्पयोग्यत्वेन प्रतिपादितं स्वयंव्यक्ते स्थाने स्थापनीयमिति सिद्धम् ।

 यदपि चात्र स्थानविशेषमधिकृत्य शास्त्रा[१]धिकारिणोर्नियमः क्रियते--

स्थानविशेषमधिकृत्य
शास्त्राधिकारिणो
नियमपराणां वचनानाम्
अर्थविचारः ।

"स्वयंव्यक्ते तथा दिव्ये दिव्यशास्त्रोक्तवर्त्मना ।
मूलागमसमैतेन मुख्यैर्भागवतैः सदा ॥
पूजनं प्रयतैः कार्यं पञ्चकालपरायणैः ।
वैष्णवायतने कार्यं केवलैः पाञ्चरात्रिकैः ॥
सान्तानिकैः प्रविष्टैर्वा मुनिवाक्योक्तवर्त्मना ।
अनुक्तान्यर्थजालानि सिद्धान्तेष्वागमादिषु ।
अन्योन्यापेक्षया ग्राह्यं शास्त्रेष्वन्यन्न चाहरेत् ॥" इति ।

एतदपि प्रकृष्टस्थाने प्रकृष्टाधिकारिणां प्रकृष्टशास्त्रा[२] दिपरिग्रहौचित्यमपकृष्टस्थानेऽपकृष्टाधिकारिणामपकृष्टशास्त्रादियोग्यत्व च स्थापयति । अन्यथा वैष्णवायतने क्वचिदपि दिव्यशास्त्रानवतारप्रसङ्गात् । मानुषेऽपि भवने मुख्याधिकारिभिः प्रतिष्ठिते दिव्यशास्त्रेण पूजनादिकर्तव्यत्वस्य पारमेश्वरनिरूपणे दर्शयिष्यमाणत्वाच्च । अत्रापि सिद्धान्तसङ्करपरिहार एव 'अनुक्तान्यर्थजालानि' इत्यादिना स्थापितः ।

  1. शास्त्राधिकारिण –क, ख, ग, च
  2. शास्त्रपरिग्रह-क, ख, ग, च,झ