पृष्ठम्:श्रीपाञ्चरात्ररक्षा.djvu/१०१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३६
श्रीपाञ्चरात्ररक्षा

 यत्पुनः पारमेश्वरे स्वयंव्यक्तनिर्णयाध्याये-

दिव्यशास्त्रेण पूज-
नस्य सर्वत्र संभवः ।

"स्वयंव्यक्तं तथा सिद्धं विबुधैश्च [१] प्रतिष्ठितम् ।
मुनिमुख्यैश्च [२] गन्धर्वैर्यक्षैर्विद्याधरैरपि ॥
रक्षोभिरधमैर्मुख्यैः स्थापितं मन्त्रविग्रहम् ।
दिव्यशास्रोक्तविधिना पूजयेच्छास्त्रकोविदः ॥" इति ।

इदमपि दिव्यशास्त्रस्य सर्वस्थानेषु सभव [३] दर्शयति । न तु शास्त्रान्तरपरित्यागेन दिव्यप्रवेशम् ।

 [४] यच्चानन्तरमुक्तम्-

"स्थापितं मनुजैर्देवं मुनिवाक्येन यत्र तु ।
पूजयेद्द्विजं तत्रापि ज्ञानिभिस्तत्त्वदर्शिभिः ।
वासुदेवैकनिष्ठैस्तु देवतान्तरवर्जितैः ॥" इति ।

इदं च व्यामिश्रमुनिवाक्यस्थापितेऽपि [५] स्थाने व्यामिश्रयागमुक्तैर्वासुदेवैकनिष्ठैः पूजनमात्रं प्रशस्तमित्याह । न पुनर्मुनिवाक्यपरि [६] त्यागेनास्याधिकाराननुगुणोत्कृष्टशास्त्रेण पूजनं विदधाति । प्राक्प्रवृत्तशास्त्रानु-

  1. सिद्धबिबुधैश्च-क, ख, ग, च
  2. मुख्यैस्तु-ख, च, छ, ज, झ
  3. समभाव- ख, ग, सद्भाव- घ, ड, च, छ, ज
  4. यत्त्वनन्तरं-क, ख, ग, च
  5. अपि-क, ख, ग, च कोशेषु नास्ति
  6. परित्यागेन स्वाधिकारानुगुण-ध,ङ,च,छ,ज