पृष्ठम्:श्रीपाञ्चरात्ररक्षा.djvu/१०२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३७
प्रथमोऽधिकारः

सारेण तैरपि तत्र पूजनस्य युक्तत्वात् । उत्कृष्टशास्त्रनिष्ठानामप्यपकृष्टशास्त्रधर्मेषु लोकानुग्रहार्थं [१] प्रवृत्ते संहितान्तरादिसिद्धत्वस्य प्रागेव दर्शितत्वात् ।

 यच्चेदमनन्तरमभिधीयते--

"व्यामिश्रयागमुक्तैस्तु तीव्रभक्तिसमन्वितैः ।
स्थापितं मनुजेन्द्रैस्तु निषद्वाकादिकोविदैः ।
अर्चयेद्देवदेवेशं दिव्यशास्त्रोक्तवर्त्मना ॥" इति ।

इदमपि दिव्यशास्त्रेण स्थापितस्थानविषयमनुसन्धेयम् ।

 इदं त्ववशिष्यते । यदुक्तम्--

मुनिवाक्यपरित्याग
पूर्वकदिव्यमार्ग
परिग्रहवचनस्य
दिव्यमार्गप्रशं
सापरत्वम् ।

"मुनिवाक्योक्तमार्गेण पूजनं यत्र वर्तते ।
तत्रापि दिव्यमार्गाच्चेत् पूजनं कर्तुमिच्छति ॥
मुनिवाक्यं परित्यज्य दिव्यमार्गेण पूजयेत् ।
भवेत् सन्निधिमाहात्म्यं कालः कल्पक्षयावधिः ॥
दिव्यमार्गेण पूजाद्यः वर्तते यत्र नित्यशः ।
तत्र दिव्यं परित्यज्य कदाचिच्च महामते ॥

  1. अनुग्रहाद्यर्थ—घ, ज