पृष्ठम्:श्रीपाञ्चरात्ररक्षा.djvu/१०३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३८
श्रीपाञ्चरात्ररक्षा

मुनिवाक्योक्तमार्गेण न कुर्यात् पूजनादिकम् ।
कुर्याद्वा यदि वा मोहाद्विप्रः समूढचेतनः [१]
घोरं प्रयाति नरकं राजा राष्ट्रं च नश्यति ।
तस्मात् सर्वप्रयत्नेन दिव्यमार्गं च न त्यजेत् ॥" इति

अस्यापि प्रागुक्तन्यायेन दिव्यमार्गप्रशंसापरत्वं सुव्यक्तम् । 'तत्रापि' इति अपिशब्दादिलिङ्गात् । 'दिव्यमार्गं तु न त्यजेत् [२] तत्रैव तात्पर्यविश्रमाच्च ।

 यद्वा कालोत्तरोक्तन्यायेन विकल्पतश्चतुर्विधपूजायोग्यं स्वयंव्यक्तस्थानम् 'मुनिवाक्योक्तमार्गेण पूजनं यत्र वर्तते' इत्यनूद्य तत्रापि दिव्यमार्गेण पूजनेच्छायाः मुनिवाक्यपरित्यागेन दिव्यमार्गेण

दिव्यमार्गपरिग्रहव
चनानां मुनिवाक्य
पूजितस्वयंव्यक्तस्था
नविषयत्वम् ।

पूजनमविरुद्धमित्युच्यते । न ह्यत्र मुनिवाक्यस्थापितस्थाने क्वचिदपि दिव्यमार्गप्रवेशः प्रस्तूयते । अपि तु मुनिवाक्यपूजित एव । सा च मुनिवाक्येन पूजा स्वयंव्यक्तेऽपि यदि [३] पूर्वं वर्तेत, तत्र कुतश्चित्प्रमाणात् स्वयंव्यक्तक्षेत्रत्वेऽवसिते सति मुनिवाक्यपरित्यागेनापि दिव्यशास्त्रोक्तविधिना दिव्यशास्त्राधिकारी पूजयेदित्युक्तं भवति ।

  1. स वृधार्थश्चिरात्तस्य भक्तिबीजेन वै सह ।
    समन्त्रं कर्मं तन्त्रं च सिद्धयश्च पराङ्मुखाः ।
    इहैव शीघ्रं विप्रेन्द्र देहान्ते गतसन्ततिः ॥
    इति क, च, ज, झ पुस्तकेषु अधिकः पाठः ॥
  2. 'अस्यापि' इत्यारभ्य 'न त्यजेत्’ इति यावत् घ, ड कोशयोः न दृश्यते.' इति निगमनेन
  3. यद्यपि- ख, ग