पृष्ठम्:श्रीपाञ्चरात्ररक्षा.djvu/१०४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३९
प्रथमोऽधिकारः

 एतेन दिव्याद्यायतननिर्णयाध्यायोक्तः प्रपञ्चोऽपि प्रत्युक्तः । तथा हि-


शास्त्रस्य दिव्यादि
नाम्ना विभागः ।

"दिव्याद्यायतनानां च पूजाद्य यत्त्वयोदितम् ।
शास्त्रं दिव्यादिभेदेन यथावद्वक्तुमर्हसि ॥"

इति पृष्टः सनकः, [१]. "वासुदेवेन यत् प्रोक्तं शास्त्रं भगवता स्वयम्" इत्यादिना साक्षाद्भगवत्प्रणीतं ब्रह्मरुद्रेन्द्रप्रमुखैः प्रवर्तितं शास्त्रं दिव्यमित्युक्त्वा,

"ब्रह्मरुद्रमुखैर्देवैः ऋषिभिश्च तपोधनैः ।
स्वयं प्रणीतं यच्छास्त्रं तद्विद्धि मुनिभाषितम् ॥"

इति ब्रह्मादिभिर्निर्मितं शास्त्रं मुनिभाषितमिति [२] विभज्य, “एतत्तु त्रिविधं विद्धि सात्त्विकादिविभेदतः" इति मुनिभाषितस्य त्रैविध्यं प्रस्तुत्य, साक्षाद्भगवतः श्रुतार्थमात्रनिबन्धनरूपं शास्त्रं सात्विकम्, भगवतः श्रुतमेकदेशं स्वयोगमहिमसिद्धं च शेषं [३] सङ्कलय्य ब्रह्मादिभिस्तच्छिष्यैश्च स्वयं प्रणीतं शास्त्रं राजसम्, केवलस्वयोग [४] विकल्पोत्थैरर्थैः कृतं शास्त्रं तामसम् इति मुनिभाषितस्य त्रैविध्यमुक्त्वा, "केवलं मनुजैर्यत्तु कृतं तत् पौरुषं भवेत्" इति दिव्यान्मुनिभा-

  1. इति सनकेन पृष्टः शाण्डिल्य: –घ
  2. ब्रह्मादिभिर्निर्मितं शास्त्रं मुनिभाषितमिति—क, ख, ग, झ कोशेषु न दृश्यते
  3. अशेष- क, ख, ग, ड, च, छ, ज झ
  4. सत्त्वयोग-क, ख, ग, झ