पृष्ठम्:श्रीपाञ्चरात्ररक्षा.djvu/९८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३३
प्रथमोऽधिकारः

तस्मात् पूजा न कर्तव्या तन्त्र-तन्त्रान्तराध्वना ।
अनुक्तं यत् स्वयंव्यक्ते दिव्ये शास्त्रे द्विजोत्तम[१]
यत्किंचित् तत्तदादेयं तन्त्र-तन्त्रान्तरे यथा[२]
तन्त्र-तन्त्रान्तरोक्तेन पूज्यमानेऽपि देशिकैः ॥
तद्विधानं परित्यज्य स्वयंव्यक्तोक्तवर्त्मना ।
दिव्योक्तविधिना कार्यं पूजनं प्रतिमासु च[३] ॥"

"स्वयंव्यक्तं तथा दिव्यमुत्कृष्टफलदं यतः ।
तस्मादुत्कृष्टशास्त्रोक्तमार्गेणैव सुपूजयेत् ॥"

इति तन्त्र-तन्त्रान्तराभ्यां पूज्यमानेऽपि तद्विधानं परित्यज्य उत्कृष्टफलदत्वेन उत्कृष्ठेन स्वयंव्यक्तेन दिव्येन च शास्त्रेण पूजनं युक्तमिति ।

 तदिदं सर्वस्थानविषयं प्रतिनियतस्थानविषयं वेति विचारणीयम् । यदि सर्वस्थान[४]विषयः तदा परिगृहीततमसात्त्वताद्यनेकसंहिताग्रन्थसङ्कोचः

उत्कृष्टसिद्धान्तस्वी
कारवचनानां स्वयं
व्यक्तस्थानविषय
त्वम् ।

प्रसज्येत । अपि चास्मिन्नेवोत्तरत्र स्वयंव्यक्तादिस्थानलक्षणनिरूपणाध्याये तत्तत्स्थानलक्षणमुक्त्वा पश्चाच्चतुर्विधपूजानिर्णयाध्याये चतुर्विधपूजनस्य, यथाक्रमं 'वैदिकं तान्त्रिकं श्रौतं मिश्रं चेति चतुर्विधम्' इति प्रक्रम्य, मूलश्रुतिदिव्यमन्त्रप्रवृत्तश्रुति-तत्सम्भेदनिमित्तनामधेयानि प्रतिपाद्यानन्तरमुच्यते-

  1. स्वव्यव्यक्ते च दिव्ये च सैद्धे चार्षे द्विजोतम—क, ख, ग
  2. तथा- क, ख, ग, झ
  3. प्रतिमासु च-इति ।–क, ख, ग, च, झ
  4. स्थान-ड, छ, ज कोशेषु नास्ति
5