पृष्ठम्:श्रीपाञ्चरात्ररक्षा.djvu/९७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३२
श्रीपाञ्चरात्ररक्षा

इति चतुर्धा विभागं सामान्येन प्रतिपाद्य, '[१]नारायणीयमौदध्यमाग्निकाश्यपसंज्ञितम्' इत्यादिना *शास्त्राण्येतानि सुव्रत' इत्यन्तेनागमादिसिद्धान्तेषु चतुर्षु कतिपयसंहितानां [२]निवेशनमनुक्तानामपि संहितानामुपलक्षणतयोदाहृत्य, 'एतद्वै पञ्चरात्राख्यं शास्त्रं सर्वोत्तमोत्तमम्' इति चतुर्विधमपि पञ्चरात्रशास्त्रं सवोत्तमोत्तमत्वेन निगम्य

आगमादिसिद्धान्तानां
स्वयंव्यक्तादिनाम्नापि
निर्देशः ।

"चतुर्धा भेदभिन्नं च स्वयंव्यक्तादिभेदतः ।
स्वयंव्यक्तं हि सिद्धान्तमागमाख्यं पुरोदितम् ।
मन्त्रसिद्धान्तसंज्ञं यत्तद्दिव्यं परिकीर्तितम् ॥"
"तन्त्रसंज्ञं हि यच्छास्त्रं तत् सैद्धं समुदाहृतम् ।
तन्त्रान्तरं तु यत्प्रोक्तमार्षं तत् समुदाहृतम् ॥"

इति प्रागुक्तानामेवागमसिद्धान्तादीनां[३] स्वयंव्यक्त-दिव्य-सैद्धार्षरूपेण वक्ष्यमाणोपयोगिसंज्ञान्तराणि निर्दिश्य,

"स्वयंव्यक्तेन दिव्येन पूज्यमाने तु कौतुके[४]
तन्त्र-तन्त्रान्तराभ्यां तु न कुर्याद्देवपूजनम् ॥
पूज्यते यदि संमोहात् स्थाननाशो भवेद्ध्रुवम् ।
राज्ञो राष्ट्रस्य कर्तुश्च मरणं जायते ध्रुवम् ॥"

  1. नारायणीय मौदध्यमग्नि-घ, नारायणीयमौद्रल्यमानि-क, ख, ग, झ
  2. निदर्शन- क, ख, ग, च
  3. प्रागुक्तानामेव सिद्धान्तानां-क, प्रागुक्तानामेव सिद्धान्तादीनां—ख, ग
  4. कौतुकात्-क, झ (स्वयंव्यक्तेन इत्यारभ्य सार्धश्लोकद्वयं ख, ग पुस्तकयोः न दृश्यते)