पृष्ठम्:श्रीपाञ्चरात्ररक्षा.djvu/९६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३१
प्रथमोऽधिकारः

"एतत् पुराणसिद्धान्तं श्रीकरं च विशेषतः ।
इदं श्रीकरसंज्ञाख्यं भोगमोक्षफलप्रदम् ।" इति ।

 अस्य च पूर्वापरं सर्वं सन्मार्गदीपिकायां विस्तरेण द्रष्टव्यम् । भोगमोक्षफलप्रदमित्यस्य श्रीकरसंज्ञसंहिताविशेषान्वितत्वेऽपि तस्यां सहितायां पुराणसिद्धान्तान्तःपातित्वात् विशेषतः इति[१] नियमात्, चकारेणानुक्तसमुच्चयाच्च कृत्स्नस्यापि तन्त्रान्तरसिद्धान्तस्य विशेषतः श्रीकरत्वं मोक्षप्रदत्वं च सिद्धम् । श्रीकामाश्च प्रायशो हि राजानो राष्ट्रवर्तिनश्चेति तत्समृध्यर्थेषु साधारणस्थानेषु तन्त्रान्तरसिद्धान्तस्यौचित्यमधिकम् । निःसङ्गास्तु स्वगृहादिषु आगमसिद्धान्तादिमर्यादामनुतिष्ठन्तु नाम । अतस्तन्त्र-तन्त्रान्तरस्थानेषु अन्यसिद्धान्तावतरणवचनमपवर्गप्रत्यासत्त्यतिशयनिबन्धनप्राशस्त्याधिक्यपरमिति मन्तव्यम् । तदपेक्षयैवेदमुक्तं कालोत्तरे – "स्वयं व्यक्तं तथा दिव्यमुत्कृष्टफलदं यतः" इति ।

 अपरे त्वाहु –व्यवस्थितस्थानविषयमेवेद[२]मपकृष्ट-

उत्कृष्टसिद्धान्तस्वी
कारवचनानां स्वय-
व्यक्तस्थानविषय
त्वपक्षः ।

सहितात्यागेनोत्कृष्टसहितापरिग्रहवचनमिति । तथा हि । यदुक्तं कालोत्तरे-


"अनेकभेदभिन्नं च पञ्चरात्राख्यमागमम् ।
पूर्वमागमसिद्धान्तं[३] मन्त्राख्यं तदनन्तरम् ।
तन्त्र-तन्त्रान्तरं चेति चतुर्धा परिकीर्तितम् ॥"

  1. विशेष इति-क, ख, ग, च
  2. एवेद-क, ख, ग, च, छ, ज, झ कोशेषु नास्ति
  3. आगमसिद्वान्तशब्दौ नपुंसकान्तावेव सर्वत्र दृश्येते