पृष्ठम्:श्रीपाञ्चरात्ररक्षा.djvu/९५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३०
श्रीपाञ्चरात्ररक्षा

मान्येन सर्वसङ्करनिषेधपर-स्वपूर्वापरग्रन्थविरोधमवधारयन्तो धृष्टबुद्धयः कतिचन तन्त्र-तन्त्रान्तरमर्यादाप्रवृत्तस्थानाक्रमणलुब्धागम-मन्त्रसिद्धान्ताभिमानिपुरुषकृतप्रक्षेपोऽयमिति मन्यन्ते ।

 अन्ये तु प्रागुक्तन्यायेन मन्त्रसिद्धान्तादिस्तुतिपरतामातिष्ठन्ते । न खल्वेतावता कालेन कल्पारम्भकृतयुगात् प्रभृति सन्तन्यमानेषु सात्त्वतशास्त्रसहितास्रोतोभेदेषु अपकृष्टसहिता परित्यज्योत्कृष्टसहिता कश्चित्

उत्कृष्टसिद्धान्तस्वीकार
वचनानां मन्त्रसिद्धान्त
स्तुतिपरत्वपक्षः ।

परिजग्राहेति महाभारते श्रीमद्वराहपुराणादिषु वा परश्शतषु पञ्चरात्रप्रस्तावेषु महर्षयः सूचयन्ति । न चार्वाचीनैरप्याचार्येरितः पूर्वं तथा कृतमिति संप्रदायविदः शिष्टाः विदामासुः । अतः शिष्टानुष्ठानबलादेव स्तुतिपरत्वमध्यवस्याम । यदि चैवं शास्त्रार्थं स्यादेतावता कालेन तन्त्र-तन्त्रान्तरस्थानानि सर्वाणि मन्त्रसिद्धान्तादिना व्याप्येरन् । इतः पूर्वमनुवृत्तावपि परस्तादेतद्बलावलम्बनेन तन्त्र-तन्त्रान्तरसिद्धान्तयोः सर्वत्रोच्छेदः प्रसज्येत । अथ चेदैहिकभोगादिप्राचुर्यात् पुरुषाणां च त्रिवर्गप्रावण्यातिशयात् तन्त्र-तन्त्रान्तरयोः सर्वत्रानुवृत्तिः संभवतीति मन्वीथाः , तर्हि [१]राज-राष्ट्रसमृद्ध्यर्थेषु स्थानेष्वैहिकफलप्रचुरयोरेव तन्त्र-तन्त्रान्तरयोर्यथापूर्वमवस्थानमुचितम् । न हि राजसु राष्ट्रेषु वा सुलभाः केवलमुमुक्षवः ।

 श्रीकरसंहितायां च प्रागुक्तस्यैव सिद्धान्तचतुष्टयस्य वेदसिद्धान्तो

तन्त्रान्तरसिद्धान्तस्य
श्रीकरत्वं मोक्षप्रदत्वं
च ।

दिव्यसिद्धान्तस्तन्त्रसिद्धान्तः पुराणसिद्धान्त इति प्रागुक्तादूरविप्रकृष्टैर्नामभेदैर्विभागमुक्त्वा पुराणसिद्धान्तसंज्ञितस्य तन्त्रान्तरसिद्धान्तस्य मोक्षप्रदस्यापि विशेषतः श्रीकरत्वमुक्तम् ।

  1. राज-घ कोशे नास्ति