पृष्ठम्:श्रीपाञ्चरात्ररक्षा.djvu/८९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२४
श्रीपाञ्चरात्ररक्षा

इक्षुभक्षणचिकीर्षुभि[१] प्रक्षिप्तानि परस्परस्थानाक्रमणलोलुपैर्वटुभिर्वा[२] पूजकाधमैर्निवेशितानि ।

"अविरोधोपयोगाभ्यामुभयोरपि शास्रयोः ।
मध्यस्थैर्हि कृतं धर्मविद्यास्थाननिवेशनम् [३]

अन्यथा प्रसिद्धप्रामाण्ययोः [४] परिग्रहप्राचुर्यवतो प्रसिद्धतरेषु श्रीरङ्ग-श्रीमद्वेङ्कटाद्रि-श्रीहस्तिशैल-वृषभगिरिप्रभृतिषु पारम्पर्येण प्रवृत्तयो व्यासादिनिबद्धश्रीवैष्णवधर्मशास्त्रकाण्डादिषु [५]

"कथ त्वमर्चनीयोऽसि मूर्तय कीदृशास्तु ते ।
वैखानसा कथं ब्रूयुः कथं वा पाञ्चरात्रिका ॥

 भगवानुवाच -

"श्रुणु पाण्डव तत्सर्वमर्चनाक्रममात्मन ।
स्थण्डिले पद्मकं कृत्वा चाष्टपत्रं सकर्णिकम् ॥
अष्टाक्षरविधानेनाप्यथवा द्वादशाक्षरैः ।
वैदिकैरथवा मन्त्रैर्मम सूक्तेन वा पुनः ॥
स्थापितं मा ततस्तस्मिन्नर्चयित्वा विचक्षणः ।
पुरुष तु तत सत्यमच्युतं च युधिष्ठिरः॥
अनिरुद्धं च मा प्राहुवैखानसविदो जनाः ।
अन्ये त्वेवं विजानन्ति मा राजन् पाञ्चरात्रिका ॥

  1. इक्षुभक्षकर्तृचिकीर्षुभिः - क, ख, ग, घ
  2. पटुभिर्वा- -ज
  3. निवेशनम् । इति- क, ख, ग, च
  4. प्रसिद्धप्रामाण्ययो –ख, ग कोशयो नास्ति
  5. धर्मशास्त्रकर्मकाण्डादिषु-ज