पृष्ठम्:श्रीपाञ्चरात्ररक्षा.djvu/८८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२३
प्रथमोऽधिकारः

न चात्र षडक्षरमन्त्रप्रक्रियायां प्रपञ्चनम् । ततश्च वासिष्ठ-गार्ग्यविहगेन्द्राहिर्बुध्न्यादिसहितोक्तप्रक्रियैव शरणम् । एव द्विभुजप्रभृतिषोडशभुजपर्यन्तरूपोपदेशेऽपि अनुक्तमप्य [१] पेक्षितमन्यतो ग्राह्यम् । अत एव हि "कृष्णरूपाण्यनन्ता [२] नि " इत्यादिभिः कृष्ण-नरसिंहादिरूपाणामसख्येयत्वेन वक्तुमशक्यतया विरम्यते ! तेषु च [३] कानिचिच्छास्त्रान्तरोक्तानि संग्राह्या्ण्येव । अत इदं “वेदान्तेषु यथासारं संगृह्य भगवान् हरि’ इत्युक्तप्रक्रियया सर्ववेदान्तसारोद्धारेण सर्वजनहितैषिणा भगवता स्वयमेव प्रणीतं श्रीमत्पञ्चरात्रशास्त्र सर्वसूत्रनिष्ठानामुपजीव्यमिति सिद्धम् ।

 यत्तु श्रीवैखानसे-

वैखानस पाञ्चरात्रयो
परस्परनिन्दावचना-
ना प्रक्षिप्तत्वपक्ष

"आग्नेयं पञ्चरात्रं तु दीक्षायुतं च तान्त्रिकम् ।
अवैदिकत्वात्तत्तन्त्रं तथा वैखानसे न तु ।
सौम्येन वैदिकेनैव देवदेव समर्चयेत्’ ॥

इत्यादि, यच्चोक्तम् श्रीपाञ्चरात्रे तन्त्रसारसमुच्चये –“ अश्रीकरमसौम्यं च

वैखानसमसात्विकम्। [४] " इत्यारभ्य, “तद्विधानं परित्यज्य पञ्चरात्रेण पूजयेत्' इत्यादि यानि च पाद्म-पारमेश्वरादिष्वतिवादवचनानि तानि नूनं

  1. अपि-घ कोशे नास्ति
  2. असङ्ख्यानि - घ
  3. केषुचित्- क, ख, ग
  4. अतात्त्विकम्-क, ख, ग, झ