पृष्ठम्:श्रीपाञ्चरात्ररक्षा.djvu/८७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२२
श्रीपाञ्चरात्ररक्षा

शास्त्राणि काचित् प्रक्रियामुपदिशन्ति तेषु तेष्वथेषु शास्त्रान्तरोपजीवीन्येव, एव पञ्चरात्रोक्तमपि क्वचित्क्वचिदुपजीवन्ति । यथोक्त भृगुप्रोक्तक्रियाधिकारे----

"गुरूपदेशसंसिद्वै कल्पमन्त्रैरथापि वा ।
आसनाद्युपचारैस्तु पूजयेदिति केचन " ॥ इति ।

अत्र कल्पमन्त्रशब्देन भगवच्छास्त्रोक्तमन्त्राणामेव ग्रहणम् । अत एव हि अधीतवेदान् वैखानसान् प्रति "गुरूपदेशाससिद्वै" इति विशेष्यते । न च तत्तन्मन्त्रकल्पा पञ्चरात्रतन्त्रेभ्य पृथग्भूता । चतुर्धा व्यूढे हि तस्मिन् शास्त्रे प्रत्येकं च सहिताभेदभेदिनि सर्वेऽपि भगवन्मन्त्रकल्पास्तदङ्गमन्त्रकल्पाश्च यथायथ समाविशन्ति । अत एव हि तास्तान् भगवन्मन्त्रकल्पान् आर्षपंचरात्रमित्यभियुक्ता व्यवहरन्ति। वर्णयन्ति क, ख, ग, च, ज, झ । तन्निष्ठाश्च कल्पभागवत शब्देन व्यपदिशन्ति । एव भार्गवादिष्वपि ।

"वैखानसेन सूत्रेण निषेकादिक्रियान्वितान् ।
विप्रान् वेदविद शुद्धान् मन्त्रकल्पविचक्षणान्"

इत्यादिषु मन्त्रकल्पवेदनोक्तिस्तत्र तत्रापेक्षितग्रहणार्था । तथा भार्गवे क्रियाधिकारे सारस्वतप्रतिष्ठादिकं प्रक्रम्योच्यते । अनेन विधिना स्थाप्य कल्पमन्त्रेण पूजयेत्' इति । न चात्र कल्पमन्त्रस्वरूपतदङ्गादिकमुपदिष्टम् । अत कल्पोक्तप्रक्रियैवात्रानुसरणीया । एवं तत्र सुदर्शनरूपस्य भगवत प्रतिष्ठार्चनादौ प्रक्रान्ते फलभेदापेक्षया प्रक्रियान्तरमुपक्षिप्यते----

"एतद्वैदिकमुद्दिष्टं भुक्तिमुक्तिफलप्रदम् ।

केवल भुक्तिकामश्चेत् [१] स्मरेन्मन्त्रं षडक्षरम् " ॥ इति ।

  1. मुक्तिकाम इति तु उचितम्