पृष्ठम्:श्रीपाञ्चरात्ररक्षा.djvu/८६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२१
प्रथमोऽधिकारः

इत्यादिभिरविशेषेण सर्वेषां ब्राह्मणादीनां श्रीपाञ्च [१] रात्रो१क्तमार्गेण भगवदर्चनादिकं कर्तव्यमिति महाभारतादिष्वभिधीयते । न हि क्वचिदपि सूत्रविशेषादिनियमः कृतः । प्रत्युत [२] सर्वसूत्रनिष्ठानां तदन्वयस्तस्मिन्नेव शास्त्रे प्रतिपाद्यते ।

" निषेकाद्गीश्च संस्कारान् स्वसूत्रोक्तान् समाचरेत् ।
पञ्चरात्रोदितान् वापि ये स्ववश्यैरनुष्ठिता " ॥ इति ।


न च बोधायन-विखन शौनकाद्युक्तेषु भगवत्प्रतिष्ठार्चनादिषु सत्सु किमन्येनेति वाच्यम् । तदुक्तिरहितसूत्रनिष्ठानामन्यापेक्षाया साधारणशास्त्रपरिग्रहोपपत्ते । [३] न च क्वचित् पूर्णोपदेशे सम्भवति तच्छक्तस्यापूर्णमुपादातु [४] युक्तम् । अत एव हि हौत्र होतृशाखोक्तमध्वर्यवोऽपि परिगृह्णन्ति । अतो येषु सूत्रेषु भगवदर्चनादिकं प्रत्यपादि तन्निष्ठानामपि भगवच्छास्त्रोक्तप्रक्रियया समाराधनादिकं प्रशस्ततमम् । तथा च शिष्टैरनुष्ठीयते ।

 ननु च वैखानससूत्रानुसारिषु [५] काश्यप्-मरीचि-भार्गवात्रेयेषु शास्त्रेषु तदनुबन्धिषु चाधिकारग्रन्थेषु सग्रह-विस्ताररूपेषु भगवत्प्रतिष्ठार्चनादिकं पूर्णमुपदिशत्सु किं पञ्चरात्रेण । मैवम् । तत्सूत्रनिष्ठान् प्रत्येवं तत्प्रक्रियोपदेशात् । तर्हि तन्निष्ठानां पञ्चरात्रप्रक्रियायाः अनुपादेयत्वे तस्या सर्वसूत्रनिष्टसाधारण्य भज्येतेति चेत्तन्न । उक्तोत्तरत्वात् [६] । काश्यपीयादीन्यपि [७] हि

  1. श्रीमत्पञ्चरात्र-घ. छ. ज
  2. सर्व- क, ख, ग कोशेषु नास्ति
  3. न क्वचित् पूर्णोपदेश सभवतीति तच्छक्तस्य पूर्णोपादान-क ख ग, च, झ
  4. अपूर्णोपादान—ख
  5. काश्यपीय-घ, ज
  6. दत्तोत्तरत्वात्- क, च, ज, झ
  7. हि - क, ख, घ, च, झ, कोशेषु नास्ति