पृष्ठम्:श्रीपाञ्चरात्ररक्षा.djvu/८५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२०
श्रीपाञ्चरात्ररक्षा

यद्यपि वैखानस-पञ्चरात्रसङ्करपरिहारम्याप्यत्रैव शास्त्रे प्रतिपादनात् तत्परि्हारार्थमिदं वचनमिति वक्तुं शक्यम्, तथापि "येन शास्त्रेण" इति सामान्यवचनात् सर्वविषयमेव । यत्तत्रोक्तम्----

"महोत्सवेषु सर्वेषु देशकालानुसारत [१]. ।
ऊहापोहविधानेन करणीयं समर्चनम्" ॥ इति ।

इदमपि देशकालद्रव्यबलाद्यनुसारेण तत्तदुचितवैदिकादिसङ्कोचविस्तारादिमात्रविषयम् । अत एव ह्यत्र "वैदिकैस्तान्त्रिकै ' इत्यादि पुन: पठित्वा

"ऋष्यादिपूजिते स्थाने पारम्पर्यक्रमं विना ।
विशेषं नाचरेत् किचिद्राजराष्ट्रसमृद्धये "॥

इनि निगम्यते [२]

 एवं पञ्चरात्राख्यैकशास्त्रावान्तरसहितासङ्करस्यात्यन्तगर्हितत्वे वैखा-

वैखानसेन पाञ्चरात्रस्य
सङ्करे दोष ।पाञ्चरात्रं
तु सर्वोपजीव्यम् ।

नस-पञ्चरात्रसङ्कर कैमुत्यनिषिद्ध [३] | परस्पर च द्वयोरपि स्पष्टं प्रतिषिध्यते । पञ्चरात्रस्य तु वैखानसैरपि कचित्कचिदुपजीव्यत्वमस्ति । तथा हि--


" ब्राह्मणैः क्षत्रियैर्वेश्यै शूद्रैश्च कृतलक्षणै ।
अर्चनीयश्च सेव्यश्च नित्ययुक्तै स्वकर्मसु ।
सात्त्वत विधिमास्थाय गीत सङ्कर्षणेन य " ॥

  1. देशिकेन्द्रानुसारत –क, ख, ग, च, छ, ज, झ
  2. इति चोच्यते—क, ख, ग, ड, झ
  3. कैमुतिकन्यायसिद्ध –क, ख, ग, ड, झ