पृष्ठम्:श्रीपाञ्चरात्ररक्षा.djvu/८३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१८
श्रीपाञ्चरात्ररक्षा

तत्रैव ---

"भोगानां च विपर्यासः मन्त्राणा च विपर्ययम्। [१]
ध्यानानां चैव मुद्राणां देवतानां तथैव च ।
अन्येषामेवमादीना [२] व्यत्यासः न समाचरेत् "॥ इति ।

तथोत्तरत्र प्रायश्चित्ताध्याये -
"प्रासादश्च तथा बिम्बं येन शास्त्रेण निर्मितौ ।
प्रतिष्ठाप्य च तेनैव नित्यादौ पूजयेद्धरिम् ॥
योऽर्चयेदन्यमार्गेण तथा चार्चापकस्तु यः ।
तावुभौ कलुषात्मानौ राज्ञो राष्ट्रस्य वै गुरो ॥
कुलं च व्याधितं चैव विप्लवं दुःखमञ्जसा ।
वित्तहानि विशेषेण कुर्यातामालयस्य च ॥
[३] कुर्यात्तन्त्रसाङ्कर्यं पञ्चरात्रपरायणः [४]
पुनः प्रतिष्ठा कर्तव्या कृतश्चेतन्त्रसङ्कर " ॥ इति ॥

तत्रैव सिद्धान्तभेदं [५] विस्तरेण प्रतिपाद्यानन्तरमुच्यते -

"शास्त्रमन्त्रक्रियादीनां मूर्तीनां भवनस्य च ।
देशिकस्याभिजातस्य यथापूर्वं परिग्रह ॥
तथैव यावत्कालं तु नाचर्तव्य तदन्यथा ।

  1. मन्त्राणा च महामते-घ, छ, ज
  2. चैवमादीना-क, ख, ग, च, झ
  3. न कार्य-घ, छ
  4. परायणे.-घ, छ
  5. तत्रैव च सिद्धान्तभेदान्-छ, ज