पृष्ठम्:श्रीपाञ्चरात्ररक्षा.djvu/८२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१७
प्रथमोऽधिकारः

अत्रादिशब्देन सिद्धान्तव्यत्यय-तन्त्रव्यत्ययादिसंग्रह । अपेक्षितत्वादविशेषाच्च । अत एव ह्यत्रैवोक्तम् ---

"तन्त्रेणैकेन कर्तव्यं कर्षणादिषु नारद ।
यत्तन्त्रेण समारब्धं तत्तन्त्रेणैव कारयेत् ॥
[१] अनुक्ताश्चान्यतन्त्रेषु निरीक्ष्यात्र नियोजयेत् [२]
विशेषाश्च [३]मुनिश्रेष्ठ त्वन्यथा राष्ट्रनाशकृत् " ॥ इति ।

पारमेश्वरे च प्रतिष्ठाध्याये ----

" विशेषेण स्वयंव्यक्ते दिव्ये सैद्धेऽपि वार्षके [४]
स्थाने तु कर्म बिम्बाना व्यत्ययं न समाचरेत् ।
द्वाराङ्गावृतिदेवानां पूजायां भवनस्य [५] च ॥"

इत्यारभ्य -

" न लक्षणान्तरं कुर्यात् न प्रमाणान्तरं तथा ।
न तु द्रव्यान्तरं चैव न च कुर्यात् क्रियान्तरम् ॥
मन्त्रान्तरं [६] न कुर्वीत सर्वं कुर्याद्यथापुरम् ।
कुर्याच्चेदेवमादीनां विपर्यास महामते ।
राज्ञो राष्ट्रस्य नाशः स्यात् सर्वस्यापि स्वसन्तते " ॥ इति ।

  1. अनुक्ताश्च- क, ख, ग
  2. विशेषाच्च-क, ख
  3. निरीयान्यत्र योजयेत् ------ क, ख, च, झ
  4. सिद्धेऽपि चार्षके—क, ख, ग, च, छ, ज, झ
  5. हवनस्य - घ, ड
  6. तन्त्रान्तर- क, ख, ग, ड