पृष्ठम्:श्रीपाञ्चरात्ररक्षा.djvu/८१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१६
श्रीपाञ्चरात्ररक्षा

न सन्निधान च हरेर्धाम्नि हानिश्च सम्पदाम् ।
राद्धान्तसङ्करं कार्यो नान्यसिद्धान्तकर्मणा ॥
मन्त्रसिद्धान्तमुख्येषु चतुर्ष्वपि यथापुरम् ।
अनुतिष्ठन्ति ये कर्म समाराधनमुच्यते ।
असङ्करेण तेऽन्योन्यं संब [१] न्धार्हा नरोत्तमाः" ॥ इति ।

असङ्करेणानुतिष्ठन्तीत्यन्वयः ।

सिद्धान्तसङ्करे
दोषप्रपञ्चनम् ।
 

 तत्रैव जीर्णोद्धाराध्याये -

"या मूर्तिर्येन तन्त्रेण यादृशेनाधिकारिणा ।
प्रथमे कल्पने सैव द्वितीये कल्पने भवेत् ॥
मूर्तिस्तदेव तन्त्र च स एव स्थापकः पुन ।
तन्त्राधिकारिमूर्तीनां व्यत्यये कल्पिते सति ।
नृणां नरपतेश्चापि राष्ट्रस्य च भवेत् क्षयः ॥" इति ।

तस्मिन्नेवोत्तरत्र प्रायश्चित्ताध्याये----

“जनने मरणे चैव श्वसृगालमृगादिभिः ।
स्पृष्टे च बिम्बे तन्त्राणां सङ्करे समुपस्थिते ।
एवमादिषु चान्येषु सम्प्रोक्षणविधिर्भवेत्" ॥ इति ।

नारदीयेऽपि ----

"व्यत्यये परिवाराणां भोगादीनां च गौतम ।
पूर्ववत् स्नपनं कृत्वा शान्तिहोमं समाचरेत् " ॥ इति ।

  1. सबद्बा हि ----- क, ख, च, ज, झ