पृष्ठम्:श्रीपाञ्चरात्ररक्षा.djvu/७९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१४
श्रीपाञ्चरात्ररक्षा

पूजनीयमथान्येन तन्त्रसिद्धान्तिनानिशम् ।
स्वेन तन्त्रान्तरेणैव पूजनीय स्वके गृहे ॥ ' इति ।

अत्राप्युत्कृष्टसिद्धान्तस्थितेनापि [१] अपकृष्टसिद्धान्तस्थानेषु तत्तत्सिद्धान्तप्रकारेणैव पूजनीयत्वमुक्तम् । उत्कृष्टमिद्धान्तस्थितस्य स्वस्थानेऽपकृष्टसिद्धान्तप्रसङ्गाभावात् । अत एव ह्यनन्तरमेवमुच्यते[२]-

मुख्याधिकारिण सन्ति यदि गौणाधिकारिण ।
स्वतन्त्रेण प्रवेष्टव्या प्रासादे च स्वतन्त्रके ॥ ' इति ।

स्वतन्त्रेण स्वकीयेन प्राक्प्रवृत्तशास्त्रेणेत्यर्थ ।

 विशेषतश्च एकायनविधानस्यान्यत्र प्रवेशे प्रत्यवायातिशयश्च[३]

एकायनविधानस्यान्यत्र
प्रवेशे प्रत्यवाय ।

तत्रैवोक्त-


तत्सिद्धान्तान्यमार्गेण स्थापितं बिम्बमालये ।
अज्ञानादथवा मोहादेकायनविधानत ।
अर्चयन्नापदं सर्वामाप्नोतीह परत्र च ? ॥ इति ।

 एवमेकैकसिद्धान्तस्थिताना सिद्धान्तान्तरक्रियासु यथोक्तप्रक्रियया-

प्रदक्षिणप्रणामादिषु
सर्वेषा सर्वत्राधिकार ।

नधिकारे समर्थिते सिद्धान्तान्तरप्रतिष्ठितेषु भगवदालयेषु तदन्यसिद्धान्तस्थिताना प्रदक्षिणप्रणाममालाकरणदीपारोपणसंमार्जनसेचनोपलेपनालङ्करणरक्षणसंवर्धनहविरादिसमर्पणस्तोत्रादीना साधारणधर्माणामपि प्रतिषेधप्रसङ्ग[४]माशङ्कय परिजहार -

  1. अपि-घ कोशे नास्ति ।
  2. मेवोच्यते-क, ख, ग, च, झ
  3. चकार –घ, छ, ज कोशेषु नास्ति
  4. प्रतिषेधमाशङ्क्य-क, ख, ग, च