पृष्ठम्:श्रीपाञ्चरात्ररक्षा.djvu/७८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१३
प्रथमोऽधिकारः

 तदेवंव्यवस्थितेषु सिद्धान्तेषु सङ्करपरिहार पाद्मे स्पष्ट । तस्मिन्नेव

एकत्र सिद्धान्ते
दीक्षितस्य अन्यत्र
नाधिकार ।

चाध्याये क्वचित् सिद्धान्ते तदवान्तरतन्त्रभेदे

वा दीक्षितस्य सिद्धान्तान्तरोक्तासु तन्त्रान्तरोक्तासु च
क्रियासु अनधिकार उक्त ।

"एकत्र दीक्षितस्तन्त्रे सिद्धान्ते वा द्विजोत्तमः ।
क्रिया न कुर्यादन्यत्र कर्षणादि [१]चतुर्मुख ॥
आचार्यकमथार्त्विज्यं पूजाद्य मधुविद्विष ।
तन्त्रभेदे च सिद्धान्तभेदेऽपि च[२] न युज्यते’ ॥ इति ।

उपरितनतन्त्राधिकारिणाम्
श्रधस्तनतन्त्रेषु
तत्तन्मार्गेण
करणेऽधिकार ।

 



’तन्त्रान्तरे तथा तन्त्र-मन्त्र[३]सिद्धान्तवर्त्मनि[४]
दीक्षिताना क्रमेणैव ह्युपर्युपरि योगत ।
अन्येषामधिकार स्यात् तत्तत्सस्कारपूर्वकम्’ ॥

इत्युक्त्वा पुनरप्युपर्युपरितन्त्रस्थितानाम[५]धोऽधस्तन्त्राधिकारित्वमुक्तम् [६]

’कारणागमसिद्धान्तनिष्ठेनान्यैस्त्रिभि सदा ।
अर्चनीयमथान्याभ्या मन्त्रसिद्धान्तिना तथा ॥

  1. कर्षणादीश्चतुर्मुख-क, ख, ग, च (कर्षणादि इति तु साधीयान् ।)
  2. भेदेऽपि हि-ग
  3. मन्त्रे-ज, झ, तन्त्रे मन्त्रसिद्धान्त-ख
  4. वर्त्मना-क,झ
  5. तन्त्राधिकाराणा-क, ख, ग, च, झ
  6. अधिकारित्व प्रदर्शितम्-क, ख ग, च, ज, झ