भ्युपगमाधारमिद्धान्तेषु अभ्युपगमसिद्धान्तस्य द्वेधा लक्षणमक्षपादाभिप्रेत
वर्णयन्ति-
’साधित परतन्त्रे य स्वतन्त्रे च समाश्रित[१] ।
स ह्यभ्युपगमो न्याये[२] मनसोऽनुमतिर्यथा । ।
तद्विशेषपरीक्षा वा सद्भावेऽन्यत्र साधिते ।
यथान्यत्र मनस्सिद्धौ[३] तस्याक्षत्वपरीक्षणम्’ ॥ इति ।
|
पारमेश्वरोक्त तन्त्र-तन्त्रान्तरलक्षण तु पौष्करोक्तेन समानमेव[४] । तथा हि
प्रायश्चित्ताध्याये सङ्करादिदोषपरिहारार्थ विभज्यमानेषु सिद्धान्तेषु आगममन्त्रसिद्धान्तप्रपञ्चनानन्तरमुच्यते -
’परव्यूहादिभेदेन विनैकैकेन मूर्तिना ।
साङ्गेन केवलेनाथ कान्ताव्यूहेन भूषणैः ।
तथास्त्रैर्विग्रहोपेतैरावृतं तन्त्रसज्ञितम् ।
नृसिहकपिलक्रोडहंसवागीश्वरादय ।।
मुख्यानुवृत्तिभेदेन केवला वाङ्गसयुता[५] ।
चक्राद्यस्त्रवरैश्चाथ भूषणैर्मकुटादिभि ॥
कान्तागणैश्च लक्ष्म्याद्यै परिवारै खगादिभि ।
पूजिता विधिना यत्र तत्तन्त्रान्तरमीरितम्' ॥ इति ।
|
- ↑ समाहित – ज.
- ↑ न्यायो-क. झ
- ↑ सिद्ध-क, झ
- ↑ पौष्करोक्तसमानमेव—घ, ज
- ↑ सयुता इत्येव सर्वत्र पाठ