पृष्ठम्:श्रीपाञ्चरात्ररक्षा.djvu/७४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
प्रथमोऽधिकार

पूर्वेण कर्मणाभ्यर्चितं सम्यक् प्राप्यते । विभवार्चनाद्व्यूह प्राप्य व्यूहार्चनात् पर ब्रह्म वासुदेवाख्य सूक्ष्मं प्राप्यत इति वदन्ति' इति । अतश्चतुर्णामप्यपवर्गे तात्पर्यम् । फलान्तरसाधनवचनस्यान्यार्थत्व स्वयमेवोक्तम्[१] –’प्रत्ययार्थे च मोक्षस्य सिद्धय सप्रकीर्तिता ।’ इति । एवं चतुर्णामपि मोक्षप्रदत्वे हि[२] त्रय्यन्तसारोपबृंहणरूपत्वमपि समञ्जसं भवति ।

 पाद्मे चर्यापादे चतुर्णामेतेषा परस्परविभाग, सिद्धान्तसङ्करे तन्त्र-

सिद्धान्तसङ्करे तन्त्रसङ्करे च पाद्मवचन विचार ।

सङ्करे च दोष [३] प्रपञ्चित -


’तच्चतुर्धा स्थितं शास्रम् ऋगादिवदनेकधा ।
एकैक भिद्यते तन्त्रं शाखाभेदेन भूयसा ॥
प्रथमं मन्त्रसिद्धान्त द्वितीयं चागमाह्वयम् ।
तृतीयं तन्त्रसिद्धान्त तुर्य तन्त्रान्तर भवेत्' ॥ इति ।

अत्र आगम-मन्त्रसिद्धान्तयो पौष्करोक्तक्रमाद्युत्क्रमेणोपादानं सिद्धिमोक्षप्रदमन्त्रसिद्धान्तप्राशस्त्ये तात्पर्यात् । अत्रापि हेि आगमसिद्धान्तस्य केवलमोक्षप्रदत्वलक्षणोऽतिशय[४] ’कर्मणामपि सन्यास कथ्यते यत्र चागमे ” इति प्रदर्शित एव । अत्र काम्यकर्मणा स्वरूपत संन्यास ,

स्ववर्णाश्रमादिनियताना[५] भगवद्भीताष्टादशाध्यायनिर्णीतप्रकारेण सात्त्विकत्याग । स्वशाखागृह्योक्तमर्यादया च सर्वत्र नित्यनैमित्तिकादिपरिग्रह ।

  1. उक्त पौष्करे–घ
  2. मोक्षप्रदत्वे सिद्धे हि—घ
  3. दोषश्च इति पाठश्चेत् साधीयान्
  4. अतिशय -क, ख, ग, झ कोशेषु नास्ति
  5. स्ववर्णाश्रमनियताना- क, ख, ग, च, झ