अत आगममिद्धान्ते सर्वकर्मस्वरूपत्याग इति न भ्रमितव्यम् । कर्मविशेष
भूयस्त्वात् । अत एव हि तन्निष्ठानधिकृत्योक्तम्-
’त्रयोदशविव कर्म कामादिपरिवर्जितम् ।
गुणै सायमिकैर्युक्तमनुतिष्ठन्ति साधव’ ॥ इति ।
|
अत्रैवोद्दिष्टक्रमेण चत्वार सिद्धान्ता लक्ष्यन्ते ।
सिद्धान्ताना पाद्मोक्त
लक्षणम् ।
’एकैव मूर्तिराराध्या प्राधान्येनेतरा पुन ।
देव्य श्रियादयश्चापि सपूज्या परिवारवत् ॥
आयुधै शङ्खचक्राद्यै श्रीवत्साद्यैश्च भूषणै ।
मूर्तिमद्भिः परिवृता केवलावाम्बुजासन ॥
कथ्यते यत्र तत् प्रोक्त मन्त्रसिद्धान्तमग्रिमम् ।
वासुदेवादयो व्यूहाश्चत्वार साधकैरपि ॥
[१]क्रमागतैस्तुल्यकक्ष्या पूज्यास्तु[२] प्रभवाप्यये ।
कर्मणामपि सन्यास कथ्यते यत्र चागमे ॥
तन्त्रमागमसिद्धान्तं तदुक्त कमलासन |
नवानामपि मूतींना प्राधान्य यत्र कथ्यते ॥
मूर्तयो द्वादशाङ्गानि तेषामेव तथापरे ।
प्रादुर्भावगणाश्चापि मूर्त्यन्तरगणा अपि ॥
प्रादुर्भावान्तरयुता सदिग्देवै[३] सहायुधै ।
|
- ↑ क्रमागता -घ
- ↑ कक्ष्यापूज्यास्तु-क, ग, झ
- ↑ सह देवैः-ज